पिप्पली
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
कल्पद्रुमः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिप्पली, स्त्री, (पिपर्त्तीति + पॄ + बाहुलकात् अलच् । पृषोदरादित्वात् साधुः । गौरादित्वात् ङीष् ।) वृक्षविशेषः । पि~पुल इति भाषा ॥ तत्पर्य्यायः । कृष्णा २ उपकुल्या ३ वैदेही ४ मागधी ५ चपला ६ कणा ७ उषणा ८ शौण्डी ९ कोला १० । इत्यमरः । २ । ४ । ९७ ॥ ऊषणा ११ पिप्पलिः १२ । इति भरतः ॥ कृकला १३ कटुबीजा १४ कोरङ्गी १५ तिक्त- तण्डुला १६ श्यामा १७ दन्तफला १८ मगघो- द्भवा १९ । अस्या गुणाः । ज्वरनाशित्वम् । वृष्यत्वम् । स्निग्धत्वम् । उष्णत्वम् । कटुत्वम् । तिक्तत्वम् । दीपनत्वम् । मारुतश्वासकासश्लेष्म- क्षयापहत्वञ्च । इति राजनिर्घण्टः ॥ स्वादु- पाकत्वम् । रसायनत्वम् । लघुत्वम् । पित्तल- त्वम् । रेचनत्वम् । कुष्ठप्रमेहगुल्मार्शःप्लीह- शूलामनाशित्वञ्च ॥ आर्द्रायास्तस्या गुणाः । कफप्रदत्वम् । स्निग्धत्वम् । शीतलत्वम् । मधुर- त्वम् । गुरुत्वम् । पित्तप्रशमनत्वञ्च । राजवल्लभे तु कफापहत्वम् । मधुयुक्तायास्तस्या गुणाः । मेदःकफश्वासकासज्वरहरत्वम् । वृष्यत्वम् । मेधाग्निवर्द्धनत्वञ्च । गुडपिप्पलीगुणाः । जीर्ण- ज्वरे अग्निमान्द्ये च शस्तत्वम् । कासाजीर्णा- रुचिश्वासहृत्पाण्डुकृमिनाशित्वञ्च । द्विगुणात् पिप्पलीचूर्णाद्गुडोऽत्र भिषजां मतः । इति भावप्रकाशः ॥ (ऋष्यवन्तपर्व्वतान्निःसृतो नदी- विशेषः । यथा, मांत्स्ये । ११३ । २५ । “तमसा पिप्पली श्येनी तथा चित्रोत्पलापि च ॥”)
अमरकोशः[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिप्पली स्त्री।
पिप्पली
समानार्थक:कृष्णा,उपकुल्या,वैदेही,मागधी,चपला,कणा,उषणा,पिप्पली,शौण्डी,कोला
2।4।97।1।2
उषणा पिप्पली शौण्डी कोलाथ करिपिप्पली। कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान्.।
अवयव : पिप्पलीमूलम्
: गजपिप्पली, जलपिप्पली
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
Monier-Williams[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिप्पली f. See. s.v.
पिप्पली f. a berry AV.
पिप्पली f. Piper Longum (both plant and berry) R. Var. Sus3r.