पिप्पलीमूलम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिप्पलीमूलम्, क्ली, (पिप्पल्या मूलमिव मूलमस्य ।) स्वनामख्यातमूलम् । पि~पुलमूल इति भाषा । तत्पर्य्यायः । ग्रन्थिकम् २ चटिकाशिरः ३ । इत्यमरः । २ । ९ । ११० ॥ षड्ग्रन्थि ४ । इति रत्नमाला ॥ मूलम् ५ कोलमूलम् ६ कटुग्रन्थि ७ कटुमूलम् ८ कटूषणम् ९ सर्व्वग्रन्थि १० पत्रा- ढ्यम् ११ विरूपम् १२ शोषसम्भवम् १३ सुगन्धि १४ ग्रन्थिलम् १५ । इति राजनिर्घण्टः ॥ उषणम् १६ । अस्य गुणाः । दीपनत्वम् । कटुत्वम् । पाचनत्वम् । लघुत्वम् । रूक्षत्वम् । पित्तकरत्वम् । भेदकत्वम् । कफवातोदरानाह- प्लीहगुल्मकृमिश्वासक्षयापहत्वञ्च । इति भाव- प्रकाशः ॥ उष्णत्वम् । रोचनत्वम् । इति राज- निर्घण्टः ॥
