सामग्री पर जाएँ

पियालः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पियालः, पुं, (पीयते तर्पयतीति । पीय + “पीयु- कणिभ्यां कालन् ह्नस्वः सम्प्रसारणञ्च ।” उणां ३ । ७६ । इति कालन् ह्नस्वश्च ।) वृक्षविशेषः । अस्यैव बीजं चिरौञ्जीति ख्यातम् । तत्पर्य्यायः । राजादनम् २ सन्नकद्रुः ३ धनुष्पटः ४ । इत्य- मरः । २ । ४ । ३५ ॥ राजातनम् ५ राजातनः ६ प्रियालः ७ सन्नः ८ कद्रुः ९ धनुः १० पटः ११ । इति तट्टीका ॥ ह्नसन्नकः १२ धन्वपटः १३ पियालकः १४ । इति शब्दरत्नावली ॥ खरस्कन्धः १५ चारः १६ बहुलवल्कलः १७ तापसेष्टः १८ ॥ (यथा, भागवते । ८ । २ । १० । “चूतैः पियालैः पनसैराम्रैराम्रातकैरपि ॥”) तस्य गुणाः । पित्तकफास्रनाशित्वम् । इति भावप्रकाशः ॥ अस्य फलगुणाः । मधुरत्वम् । स्निग्धत्वम् । बृंहणत्वम् । वातपित्तनाशित्वञ्च । इति राजवल्लभः ॥ गुरुत्वम् । सरत्वम् । दाह- ज्वरतृषापहत्वञ्च । तस्य मज्जगुणाः । मधु- रत्वम् । वृष्यत्वम् । पित्तानिलापहत्वम् । हृद्य- त्वम् । अतिदुर्जरत्वम् । स्निग्धत्वम् । विष्टम्भि- त्वम् । आमवर्द्धनत्वञ्च । इति भावप्रकाशे पूर्ब्ब- खण्डे प्रथमो भागः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पियालः [piyālḥ], N. of a tree; मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विघ्रित- दृष्टिपाताः Ku.3.31. -लम् The fruit of this tree.

"https://sa.wiktionary.org/w/index.php?title=पियालः&oldid=302342" इत्यस्माद् प्रतिप्राप्तम्