पिशङ्गः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिशङ्गः, पुं, (पिंशतीति । पिश + “विडादिभ्यः कित् ।” उणां । १ । १२० । इत्यङ्गच् स च कित् ।) पिङ्गलवर्णः । तद्वति, त्रि । इत्यमरः । १ । ५ । १६ -- १७ ॥ (यथा, ऋग्वेदे । १ । ८८ । २ । “तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथ- तूर्भिरश्वैः ॥” यथा च माघे । १ । ६ । “पिशङ्गमौञ्जीयुजमर्ज्जुनच्छविं वसानमेणाजिनमञ्जनद्युति । सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥” नागभेदः । यथा, महाभारते । १ । ५७ । १६ । “भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारकः ॥”)
