सामग्री पर जाएँ

पिशुनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिशुनः, पुं, (पिश + उनन् । स च कित् ।) कपि- वक्त्रः । नारदः । काकः । इति मेदिनी । ने, ९२ ॥ (अङ्गधृषः पुत्त्रः । यथा, मार्कण्डेये । ५१ । ६५ । “अङ्गधृक् तनयं लेभे पिशुनं नाम नामतः ॥” कौशिकस्य पुत्त्रभेदः । यथा, हरिवंशे । २१ । ५-६ । “वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च । खसृमः पितृवर्त्ती च नामभिः कर्म्मभिस्तथा ॥ कौशिकस्य सुतास्तात ! शिष्या गार्ग्यस्य भारत ! । पितर्य्युपरते सर्व्वे व्रतवन्तस्तदाभवन् ॥”)

पिशुनः, त्रि, (पिश + उनन् । स च कित् ।) अप्रकाशेनानुचितप्रबोधकः । परस्परभेदशीलः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । “द्विजिह्वः सूचकः कर्णेजपः पिशुन इत्यपि । दुर्जनो दुर्व्विधो विश्वकद्रुश्च पिशुनः खलः ॥” इति जटाधरः ॥ * ॥ “कर्णेजपः सूचकः स्यादनौचित्यप्रबोधके । परस्परं भेदशीले पिशुनो दुर्जनः खलः ॥” इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । ५९ । “अनुग्रहेण न तथा व्यथयति कटुकूजितैर्यथा पिशुनः ॥ रुधिरादानादधिकं दुनोति कर्णे क्वणन् मशकः ॥”) क्रूरः । इति मेदिनी । ने, ९२ ॥ (यथा, मनौ । ३ । १६१ । “भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=पिशुनः&oldid=149028" इत्यस्माद् प्रतिप्राप्तम्