पिष्टम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पिष्टम्, क्ली, (पिष्यते स्मेति । पिष + क्तः ।) सीस- कम् । इति रत्नमाला ॥ पिष्टकः । यथा, -- “अन्नादष्टगुणं पिष्टं पिष्टादष्टगुणं पयः । पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतम् । घृतादष्टगुणं तैलं मर्द्दनान्न च भक्षणात् ॥” * ॥ अस्य गुणाः । “पिष्टं प्राणकरं रूक्षं विदाहि गुरु दुर्ज्जरम् । शालिपिष्टमया भक्ष्याः कफपित्तविनाशनाः । वैदला गुरवो भक्ष्या विष्टम्भिसृष्टमारुताः ॥ सगुडाः सतिलाश्चैव सक्षौद्रक्षारशर्कराः । भक्ष्या बल्याश्च हृद्याश्च गुरवो बृंहणाः परम् ॥ सस्नेहाः स्नेहसिक्ताश्च भक्ष्या गोधूमसम्भवाः । गुरवस्तर्पणा हृद्या बलोपचयवर्द्धनाः ॥ मर्द्दितां समितां क्षीरनारिकेलघृतादिभिः । अवग्राह्य घृते पक्त्वा घृतपूरोऽयमुच्यते ॥ घृतपूरो गुरुर्वृष्यः कफकृद्रक्तमांसदः । रक्तपित्तहरो हृद्यः स्वादुः पित्तहरोऽग्निदः ॥” गोधूमचूर्णं समिता । “समिता मधुदुग्धेन खण्डैलामरिचादिभिः । घृते पक्त्वा क्षिपेत् खण्डे संयावो बृंहणो गुरुः ॥ समिता वेष्टिता मध्ये मधु दत्त्वा घृते शृता । मधुमस्तकमुद्दिष्टं तद्वृष्यं गुरु दुर्जरम् ॥” इति राजवल्लभः ॥ पर्पटशस्कुलीफेनकवटलड्डुकानां गुणास्तत्त- च्छब्दे द्रष्टव्याः ॥ * ॥ चूर्णीकृते, त्रि ॥ (यथा, कथासरित्सागरे । ६ । ४१ । “कृत्वा तांश्चणकान् पिष्टान् गृहीत्वा जल- कुम्भिकाम् । अतिष्ठं चत्वरे गत्वा छायायां नगराद् बहिः ॥”)
