सामग्री पर जाएँ

पिहितम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पिहितम्, त्रि, (अपि धीयते स्मेति । धा + क्तः । “दधातेर्हिः ।” ७ । ४ । ४२ । इति ह्यादेशः । अपेरल्लोपः ।) आच्छादितम् । तत्पर्य्यायः । संवीतम् २ रुद्धम् ३ आवृतम् ४ संवृतम् ५ छन्नम् ६ स्थगितम् ७ अपवारितम् ८ अन्त- र्हितम् ९ तिरोधानम् १० । इति हेमचन्द्रः ॥ (यथा, महाभारते । ४ । ४४ । १८ । “ध्वजेन पिहिताः सर्व्वा दिशो न प्रतिभान्ति मे । गाण्डीवस्य च शब्देन कर्णौ मे वधिरीकृतौ ॥”)

"https://sa.wiktionary.org/w/index.php?title=पिहितम्&oldid=149055" इत्यस्माद् प्रतिप्राप्तम्