पीठमर्द्द
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीठमर्द्दः, पुं, (मृद्नातीति । मृद् + अच् । पिठस्यासनस्य मर्द्दः ।) नायकविशेषः । तस्य लक्षणम् । कुपितस्त्रीप्रसादकः । उदाहरणं यथा, -- “कोऽयं कोपविधिः प्रयच्छ करुणागर्भं वचो जायतां पीयूषद्रवदीर्घिकापरिमलैरामोदिता मेदिनी । आस्तां वा स्पृहयालु लोचनमिदं व्यावर्त्तयन्ती- मुहु- र्यस्मै कुप्यसि तस्य सुन्दरि ! तपोवृन्दानि वन्दामहे ॥ नर्म्मसचिवोऽप्ययमेव ।” इति रसमञ्जरी ॥ (अयं हि नायकस्य उत्तमसहायानामन्यतमः । इति साहित्यदर्पणम् । ३ । ५३ ॥ नायकप्रियः । अति- धृष्टः । यथा, मेदिनी । दे, ५० । “पीठमर्द्दोऽति धृष्टे स्यात् नायकस्य प्रियेऽपि च ॥” यथा, महाभारते । ४ । २० । ३३ । “प्रेक्षते स्म विराटस्तु कङ्कश्च बहवो जनाः । रथिनः पीठमर्द्दाश्च हस्त्यारोहाश्च नैगमाः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीठमर्द्द¦ पु॰ नायकसहायभेदे
“दूरावर्त्तिनि स्यात् तस्यप्रासङ्गिकेतिवृत्ते तु। किञ्चित्तद्गुणहीनः सहाय ए-वास्य पीठमर्दाख्यः”।
“तस्य नायकस्य बहुव्यापिनिप्रसङ्गागतेतिवृत्तेऽनन्तरोक्तैर्नायकसामान्यगुणै किञ्चि-दूनः पीठमर्दनामा सहायो भवति। यथा राम-[Page4345-a+ 38] चन्द्रादीनां सग्रीवादयः” साहित्यदर्पणे उक्तम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीठमर्द्द¦ m. (-र्द्दः)
1. A parasite, a companion.
2. A dancing master who gives instruction in that art to courtezans. E. पीठ a seat, and मृद् to rub, aff. घञ्