सामग्री पर जाएँ

पीठमर्द्दः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीठमर्द्दः, पुं, (मृद्नातीति । मृद् + अच् । पिठस्यासनस्य मर्द्दः ।) नायकविशेषः । तस्य लक्षणम् । कुपितस्त्रीप्रसादकः । उदाहरणं यथा, -- “कोऽयं कोपविधिः प्रयच्छ करुणागर्भं वचो जायतां पीयूषद्रवदीर्घिकापरिमलैरामोदिता मेदिनी । आस्तां वा स्पृहयालु लोचनमिदं व्यावर्त्तयन्ती- मुहु- र्यस्मै कुप्यसि तस्य सुन्दरि ! तपोवृन्दानि वन्दामहे ॥ नर्म्मसचिवोऽप्ययमेव ।” इति रसमञ्जरी ॥ (अयं हि नायकस्य उत्तमसहायानामन्यतमः । इति साहित्यदर्पणम् । ३ । ५३ ॥ नायकप्रियः । अति- धृष्टः । यथा, मेदिनी । दे, ५० । “पीठमर्द्दोऽति धृष्टे स्यात् नायकस्य प्रियेऽपि च ॥” यथा, महाभारते । ४ । २० । ३३ । “प्रेक्षते स्म विराटस्तु कङ्कश्च बहवो जनाः । रथिनः पीठमर्द्दाश्च हस्त्यारोहाश्च नैगमाः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पीठमर्द्दः&oldid=149062" इत्यस्माद् प्रतिप्राप्तम्