सामग्री पर जाएँ

पीठम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीठम्, त्रि, (पेठन्त्युपविशन्त्यस्मिन्निति । पिठ + “हलश्च ।” ३ । ३ । १२१ । इति घञ् । बाहु- लकादिकारस्य दीर्घः । यद्वा, पीयतेऽत्रेति । पी ङ् पाने + बाहुलकात् ठक् ।) उपवेश- नाधारः । इत्यमरः । २ । ६ । १३८ ॥ पिडी चौकी इत्त्यादि भाषा । तत्पर्य्यायः । आसनम् २ उपा- सनम् ३ पीठी ४ विष्टरः ५ । इति शब्दरत्ना- वली । व्रतिनामासनम् । तत्तु कुशासनादि । तत्पर्य्यायः । विष्टरः २ । इति त्रिकाण्डशेषः ॥ वृषी ३ । इति हेमचन्द्रः ॥ (यथा, महाभारते । ५ । ३८ । २ । “पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्निज्य पादौ । सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यादन्नमवेक्ष्य धीरः ॥”) अथ पीठोद्देशः । “धातुपाषाणकाष्ठैश्च पीठस्त्रिविध उच्यते । धातवश्च शिलाश्चैव काष्ठानि विविधानि च ॥ तदत्र संप्रवक्ष्यामि यद्येषामुपयुज्यते ॥” अथ मानम् । “हस्तद्वयस्तु दैर्घ्येण तदर्द्धे परिणाहतः । तदर्द्धेनोन्नतः पीठः सुख इत्यभिधीयते ॥ हस्तद्वयद्वयाधिक्यात् पञ्च पीठा भवन्ति हि । सुखं जयः शुभः सिद्धिः सम्पच्चेति यथाक्रमम् ॥ धनभोगसुखैश्वर्य्यवाञ्छितार्थप्रदायकः । यथाशक्तिपुरश्चर्य्यां कुर्य्यान्मन्त्रस्य सत्तमः । मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥ पूजयेदनिशं राजन् ! पुरश्चरणकृद्भवेत् । वित्तशाठ्यं न कुर्व्वीत देवीभक्तिपरो नरः ॥ य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः । सहस्रकल्पपर्य्यन्तं ब्रह्मलोके महत्तरे ॥ वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा । अन्ते लब्ध्ना परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥”) अन्यानि पीठादीनि कालीपुराणे १८ । ५० । ६१ अध्यायेषु द्रष्टव्यानि ॥ * ॥ पीठन्यासस्तु न्यास- शब्दे द्रष्टव्यः । पीठदेवतापूजनं न्यासक्रमेणैव ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीठम् [pīṭham], 1 A seat (a stool, chair, bench, sofa &c.); जवेन पीठादुदतिष्ठदच्युतः Śi.1.12; R,4.84;6.15.

The seat of a religious student made of Kuśa grass.

The seat of a deity, an altar.

A pedestal in general, basis.

A particular posture in sitting.

(In geometry) The complement of a segment.

N. of various temples; पीठं जालंधरं नाम तिष्ठत्यत्र चतुर्मुख Yoga- śikhopaniṣad, 5.11.

A royal seat, throne.

A district, province. -Comp. -अधिकारः appointment to an office. -केलिः a male confidant, a parasite. -ग a.

lame, crippled.

seated in one's seat (not a warrior); यो$पि स्यात् पठिगः कश्चित् किं पुनः समरे स्थितः Mb.3.22.24 (com. पीठगः स्वासनस्थः अयुद्धमानो$पीत्यर्थः ।). -गर्भः the cavity in the pedestal of an idol. -चक्रम् a carriage. -नायिका a girl of fourteen (before menstruation) who represents Durgā at the festival of that goddess. -भूः f. basis, basement. -मर्द a. very impudent.

र्दः a companion, parasite, one who assists the hero of a drama in great undertakings, e. g. in securing his mistress; Dk.2.2; so पीठमर्दिका 'a lady who assists the heroine in securing her lover'; उपस्थिता पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्य देवी M.1.13/14.

a dancing master who instructs courtezans in the art of dancing. -सर्प a. lame, crippled; Ms.8.394; कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् Mb.3.35.22.

"https://sa.wiktionary.org/w/index.php?title=पीठम्&oldid=303419" इत्यस्माद् प्रतिप्राप्तम्