सामग्री पर जाएँ

पीडनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीडनम्, क्ली, (पीड वाधे अवगाहे वा + भावे- ल्युट् ।) शस्यादिसम्पन्नदेशस्य परचक्रेण पीड- नम् । शत्रुकृतगाढप्रहारः । इति केचित् । पदाक्रमणम् । इति केचित् । इति भरतः ॥ तत्- पर्य्यायः । अवमर्द्दः २ । इत्यमरः । २ । ८ । १०९ ॥ (यथा, देवीभागवते । ३ । १२ । १३ । “पीडनञ्चैव पाञ्चाल्या स्तथा द्यूते पराजयः ॥”) दुःखनम् । यथा, -- “भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् । नरकं पीडने चास्य तस्माद्यत्नेन तं भरेत् ॥” इति दायभागधृतमनुवचनम् ॥ मर्द्दनम् । टिपन चापन इत्यादि भाषा । यथा, -- “गर्भोऽभिघातविषमाशनपीडनाद्यैः पक्वं द्रुमादिव फलं पतति क्षणेन ॥” इति माधवकरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीडनम् [pīḍanam], [पीड् भावे ल्युट्]

Paining, distressing, oppressing, inflicting pain; Ms.9.299; प्रजापीडनसंतापात् समुद्भूतो हुताशनः । राज्ञः श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते ॥ Pt. 1.345; पीडनवर्गः N. of a chapter in Kau. A. (8. 4).

(a) Squeezing; pressing; Rām.7.16.29; दोर्वल्लिबन्ध- निबिडस्तनपीडनानि Gīt.1; दन्तोष्ठपीडननखक्षतरक्तसिक्ताम् Ch. P. 44. (b) Pressure; ममातिदृढपीडनैरपि न तृप्तिरालिङ्गनैः Māl.9. 38.

An instrument for pressing.

Taking, holding, seizing, as in करपीडन or पाणिपीडन q. v.

Laying waste, devastation.

Threshing corn.

An eclipse; as in ग्रहपीडन q. v. शशिदिवाकरयोर्ग्रहपीडनम् Bh.2.91.

Suppressing sounds, a fault in the pronunciation of vowels.

"https://sa.wiktionary.org/w/index.php?title=पीडनम्&oldid=303519" इत्यस्माद् प्रतिप्राप्तम्