सामग्री पर जाएँ

पीतकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीतकम्, क्ली, (पीत + “यावादिभ्यः कन् ।” ५ । ४ । २९ । इति स्वार्थे कन् ।) हरितालम् । इत्यमरः ॥ (पीतेन पीतवर्णेन कायतीति । कै + कः ।) कुङ्कुमम् । इति जटाधरः ॥ (अस्य पर्य्यायो लक्षणञ्च यथा, -- “कुङ्कुमं घुसृणं रक्तं काश्मीरं पीतकं वरम् । सङ्कोचं पिशुनं धीरं वाह्लीकं शोणिताभिधम् ॥ काश्मीरदेशजे क्षेत्रे कुङ्कुमं यद्भवेद्धितम् । सूक्ष्मकेशरमारक्तं पद्मगन्धि तदुत्तमम् ॥ वाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरम्मतम् । केतकीगन्धयुक्तन्तन्मध्यमं सूक्ष्मकेशरम् ॥ कुङ्कुमं पारसीकेयम्मधुगन्धि तदीरितम् । ईषत्पाण्डुरवर्णन्तदधमं स्थूलकेशरम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) अगुरु । पद्मकाष्ठम् । रीतिः । माक्षिकम् । इति राजनिर्घण्टः ॥ नन्दीवृक्षः । पीतशालः । इति रत्नमाला ॥ श्योनाकप्रभेदः । हरिद्रुः । किंकि- रातवृक्षः । इति राजनिर्घण्टः ॥ (पीतेन पीतवर्णेन रक्तमिति । पीत + “लाक्षारोचना- ठ्ठक् ।” ४ । २ । २ । इत्यस्य “पीतात् कन् ।” इति वार्त्तिकोक्त्या कन् । पीतवर्णरञ्जिते पीत- वर्णविशिष्टे च त्रि ॥ पीत + स्वार्थे कन् । पीतवर्णे, पुं । यथा, महाभारते । १२ । १८८ । ५ । “ब्राह्मणानां सितो वर्णः क्षत्त्रियाणान्तु लोहितः । वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=पीतकम्&oldid=149076" इत्यस्माद् प्रतिप्राप्तम्