सामग्री पर जाएँ

पीतचन्दनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीतचन्दनम्, क्ली, (पीतं चन्दनमिति नित्यकर्म्म- धारयः ।) पीतवर्णचन्दनम् । तत्तु द्रविडदेशे प्रसिद्धम् । कलम्बक इति ख्यातम् । तत्पर्य्यायः । पीतगन्धम् २ कालेयम् ३ पीतकम् ४ माधव- प्रियम् ५ कालेयकम् ६ पीतकाष्ठम् ७ वर्व्वरम् ८ । इति राजनिर्घण्टः ॥ कालीयकम् ९ कालीयम् १० वीताभम् ११ हरिचन्दनम् १२ हरिप्रियम् १३ कालसारम् १४ कालानुसार्य्य- कम् १५ । अस्य गुणाः । रक्तचन्दनगुणतुल्य- गुणत्वम् । व्यङ्गनाशित्वञ्च । इति भावप्रकाशः ॥ शीतलत्वम् । तिक्तत्वम् । कुष्ठश्लेष्मकण्डूविच- र्च्चिकादद्रुक्रिमिनाशित्वम् । कान्तिकरत्वञ्च । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=पीतचन्दनम्&oldid=149091" इत्यस्माद् प्रतिप्राप्तम्