सामग्री पर जाएँ

पीतद्रुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीतद्रुः, पुं, (पीतो द्रुरिति नित्यकर्म्मधारयः ।) सरलवृक्षः । दारुहरिद्रा । इत्यमरः । २ । ४ । ६०, २ । ४ । १०१ ॥ (यथास्य पर्य्यायः । “दार्व्वी दारुहरिद्रा च पर्ज्जन्या पर्ज्जनीति च । कटङ्कटेरी पीता च भवेत् सैव पचम्पचा ॥ सैव कालीयकः प्रोक्तस्तथा कालेयकोऽपि च । पीतद्रुश्च हरिद्रुश्च पीतदारुकपीतकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=पीतद्रुः&oldid=149104" इत्यस्माद् प्रतिप्राप्तम्