सामग्री पर जाएँ

पीतनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीतनम्, क्ली, (पीतं करोतीति । तत्करोतीति णिच् । ततो ल्युः । यद्वा, पीतं पीतवर्णं नयतीति । नी + डः ।) कुङ्कुमम् । (यथा, श्रीकण्ठचरिते । ९ । ३४ । “अपहृत्य पीतनमशेष- ममरसुदृशां शरीरतः । भीत इव गहननाभिगुहां प्रपलाय्य तूर्णमविशत् पयोभरः ॥”) हरितालम् । पीतदारु । इत्यमरमेदिन्यौ ॥

"https://sa.wiktionary.org/w/index.php?title=पीतनम्&oldid=149106" इत्यस्माद् प्रतिप्राप्तम्