पीतपुष्पः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीतपुष्पः, पुं, (पीतानि पीतवर्णानि पुष्पानि यस्य ।) कर्णिकारवृक्षः । इति शब्दचन्द्रिका ॥ चम्पक- वृक्षः । इति राजनिर्घण्टः ॥ पीतझिण्टी । पिण्डीतकभेदः । इति रत्नमाला ॥ (इङ्गुदी- वृक्षः । यथा, वैद्यकरत्नमालायाम् । “पीतपुष्पोऽङ्गारपुष्प इङ्गुदी तापसप्रियः ॥” राजकोशातकी । तत्पर्य्यायो यथा, भाव- प्रकाशे । “धामार्गवः पीतपुष्पो जालिनी कृतबोधना । राजकोशातकी चेति तथोक्ता राजिमत्फला ॥”)
