पीतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीतम्, क्ली, (पा + भावे क्तः ।) पानम् । इति मेदिनी । ते, ३४ ॥ (पीतो वर्णोऽस्यास्तीति । अच् । पीताभत्वादस्य तथात्वम् ।) हरितालम् । इति राजनिर्घण्टः ॥ (हरिचन्दनम् । तत्पर्य्यायो यथा, वैद्यकरत्नमालायाम् । “पीतसारं सुशीतञ्च तत्पीतं हरिचन्दनम् ॥”)
पीतम्, त्रि, (पीतवर्णोऽस्यास्तीति । अच् ।) पीत- वर्णयुक्तम् । इति मेदिनी । ते, ३४ । (यथा, महाभारते । ४ । ४१ । २० । “ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः । हेमशृङ्गास्त्रिपर्व्वाणो राज्ञ एते महाशराः ॥” पा + कर्म्मणि क्तः ।) कृतपानम् । यथा, -- “हालाहलमपि पीतं बहुशो भिक्षापि भक्षिता भवता । अनयोरवगतरसयोः कियदन्तरं वद योगिन् ! ॥” इत्युद्भटः ॥ (पीतं पानमस्त्यस्येति । अच् । यद्वा, पीतं नीर क्षीरं वा येन इत्युत्तरपदलोपः । पीतदुग्धादि- कम् । यथा, रघौ । २ । १ । “अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥”)
