सामग्री पर जाएँ

पीताब्धिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीताब्धिः, पुं, (पीतः अब्धिः समुद्रो येन ।) अगस्त्यमुनिः । इति हेमचन्द्रः । २ । ३६ ॥ (अगस्त्यमुनेः समुद्रपानकथा यथा, भहा- भारते । ३ । १०५ । १ -- ६ । “समुद्रं स समासाद्य वारुणिर्भगवानृषिः । उवाच सहितान् देवानृषींश्चैव समागतान् ॥ अहं लोकहितार्थं वै पिबामि वरुणालयम् । भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् ॥ एतावदुक्त्वा वचनं मैत्रावरणिरच्युतः । समुद्रमपिबत् क्रुद्धः सर्व्वलोकस्य पश्यतः ॥ पीयमानं समुद्रस्तु दृष्ट्वा सेन्द्रास्तदामराः । विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् ॥ त्वं नस्त्राता विधाता च लोकानां लोकभावन ! । तत्प्रसादात् समुच्छेदं न गच्छेत् सामरं जगत् ॥ संपूज्यमानस्त्रिदशैर्महात्मा गन्धर्व्वतूर्य्येषु नदत्सु सर्व्वशः । दीव्यैश्च पुष्पैरवकीर्य्यमाणो महार्णवं निःसलिलं चकार ॥”)

"https://sa.wiktionary.org/w/index.php?title=पीताब्धिः&oldid=149163" इत्यस्माद् प्रतिप्राप्तम्