सामग्री पर जाएँ

पीयूषम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पीयूषम्, क्ली, (पीय्यते इति । पीय सौत्रधातुः + “पीयेरूषन् ।” उणां । ४ । ७६ । इति ऊषन् ।) अमृतम् । इत्यमरः । १ । १ । ५१ ॥ (यथा, काशीखण्डे । २९ । ४९ । “खरसन्तापशमनी खनिः पीयूषपाथसाम् ॥”) दुग्धम् । इति राजनिर्घण्टः ॥ (यथा, -- “पानीयं क्लमनाशनं श्रमहरं मूर्च्छापिपासापहं तन्द्राच्छर्द्दिविबन्धहृद्बलकरं निद्राहरं तर्पणम् । हृद्यं गुप्तरसं ह्यजीर्णशमकं नित्यं हितं शीतलं लघ्वच्छं रसकारणन्तु निगते पीयूषवज्जी- विनम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=पीयूषम्&oldid=149192" इत्यस्माद् प्रतिप्राप्तम्