पीवरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पीवरः, त्रि, (प्यायते वर्द्धते इति । प्यैङ् + “छित्वरच्छत्वरधीवरपीवरमीवरचीवरतीवर- नीवरगह्वरकट्ठरसंयद्वराः ।” उणां । ३ । १ । ष्वरच् । सम्प्रसारणं दीर्घश्च ।) उपचिता- वयवः । मोटा इति भाषा । तत्पर्य्यायः । पीनः २ पीवा ३ स्थूलः ४ । इत्यमरः । ३ । १ । ६१ ॥ (यथा, आर्य्यासप्तशत्याम् । ४२० । “भयपिहितं बालायां पीवरमूरुद्वयं स्मरोन्निद्रः । निद्रायां प्रेमार्द्रः पश्यति निःश्वस्य निःश्वस्य ॥” पुं, तामसमन्वन्तरीयसप्तर्षिभेदः । यथा, मार्क- ण्डेये । ७४ । ५९ । “ज्योतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा । पीवरश्च तथा ब्रह्मन् ! सप्त सप्तर्षयोऽभवन् ॥”)
