पुंसवनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुंसवनम्, क्ली, (पुमांसमिव सूते बलप्रदानेन पुरुष- वत् जनयत्यनेनेति । सू + करणे ल्युट् ।) दुग्धम् । इति हेमचन्द्रः । ३ । ४०४ ॥ (पुमासं सूतेऽने- नेति । सू ङ ल + करणे ल्युट् ।) संस्कार- विशेषः । इति त्रिकाण्डशेषः ॥ (यथा, रघु- वंशे । ३ । १० । “यथाक्रमं पुंसवनादिकाः क्रियाः धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥”) अस्येतिकर्त्तव्यता यथा । “गर्भस्य तृतीयमासो- पक्रमे यच्छुद्धदिनं तस्मिन् पतिः कृतनित्यक्रियः कृतवृद्धिश्राद्धः चन्द्रनामानमग्निं संस्थाप्य विरू- पाक्षजपान्तां कुशण्डिकां समाप्य कृतस्नानां बधूमग्नेः पश्चिमायां दिशि स्वदक्षिणतः कुशेषु प्राङ्मुखीमुपवेश्य प्रकृतकर्म्मारम्भे प्रादेश- प्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा महाव्याहृतिहोमं कुर्य्यात् । यथा । प्रजापति- रृषिर्गायत्त्री छन्दोऽग्निर्देवता महाव्याहृति- होमे विनियोगः ओ~ भूः स्वाहा । प्रजापति- रृषिरुष्णिक् छन्दो वायुर्द्देवता महाव्याहृति- होमे विनियोगः ओ~ भुवः स्वाहा । प्रजापति- रृषिरनुष्टुप् छन्दः सूर्य्यो देवता महाव्याहृति- होमे विनियोगः ओ~ स्वः स्वाहा । ततः पति- रुत्थाय बधूपृष्ठदेशे स्थितो बधूदक्षिणस्कन्धं स्पृष्ट्वा अवतीर्णेन दक्षिणहस्तेन अव्यवहितं बधूनाभिदेशं स्पृशन् जपति । प्रजापतिरृषि- रनुष्टुप् छन्दो मित्रावरुणाग्निवायवो देवताः पुंसवने विनियोगः । ओ~ पुमांसौ मित्रावरुणौ पुमांसावश्विनावुभौ । पुमानग्निश्च वायुश्च पुमान् गर्भस्तवोदरे ॥ इत्येकं पुंसवनम् ॥ * ॥ अपरपुंसवनकर्म्मार्थञ्च वटवृक्षस्य पूर्ब्बोत्तर- शाखायां फलयुगलशालिनीं कृमिभिरनुपहतां वटशुङ्गां यवानां माषाणां वा त्रिभिस्त्रिभि- र्गुडकैः सप्त वारान् सप्तभिर्मन्त्रैः क्रीणीयात् । सप्तानां मन्त्राणामृष्यादयः साधारणाः । प्रजा- पतिरृषिः सोमवरुणवसुरुद्रादित्यमरुद्विश्वे देवा देवता न्यग्रोधशुङ्गापरिक्रयणे विनियोगः ओ~ यद्यसि सौमी सोमायत्वा राज्ञे परिक्री- णामि । इति गुडकत्रयेण एकं क्रयणम् ॥ १ ॥ दद्यात् पत्न्यै चरोः शेषं सुप्रजस्त्वं सुसौभगम् ॥ एतच्चरित्वा विधिवद्व्रतं विभो- रभीप्सितार्थं लभते पुमानिह । स्त्री चैतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम् ॥ कन्या च विन्देत समग्रलक्षणं पतिं त्ववीरा हतकिल्विषाङ्गतिम् । मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्रियम् ॥ विन्देदविरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् । एतत् पठन्नभ्युदये च कर्म्म- ण्यनन्ततृप्तिः पितृदेवतानाम् ॥ तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीर्हरिश्च । राजन्महन्मरुतां जन्मपुण्यं दितेर्व्रतञ्चाभिहितं महत्ते ॥” इति श्रीभागवते ६ स्कन्धे पुंसवनव्रतकथनं १९ अध्यायः ॥ (पुंवत् सूयते इति । कर्म्मणि ल्युट् । गर्भः । इति श्रीधरस्वामी ॥ यथा, भागवते । ५ । २४ । १५ । “यस्मिन् प्रविष्टेऽसुरबधूनां प्रायः पुंसवनानिभयादेव स्रवन्ति पतन्ति च ॥” * ॥ पुत्त्रोत्पादके, त्रि । यथा, भागवते । ९ । ६ । २८ । “पप्रच्छुः कस्य कर्म्मेदं पीतं पुंसवनं जलम् ॥” तथा च तत्रैव । ४ । १३ । ३७ -- ३८ । “स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् । अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदारधीः ॥ सा तत् पुंसवनं राज्ञी प्राश्य वै पत्युरादधे । गर्भं काल उपावृत्ते कुमारं सुषुवे प्रजाः ॥”)
