पुक्कशः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुक्कशः, पुं, (पुक् कुत्सितं कशति गच्छतीति । कश गतौ + अच् ।) चण्डालः । इत्यमरः । २ । १० । २० ॥ (यथा, मार्कण्डेये । १५ । १८ । “अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः । मत्स्यस्तु वायसः कूर्म्मः पुक्कशो जायते ततः ॥” स तु निषादात् शूद्रायां जातो जातिविशेषः । यथा, मनुः । ४ । ७९ । “न संवसेच्च पतितैर्नचाण्डालैर्न पुक्कशैः ॥”)
