पुङ्खः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुङ्खः, पुं, (पुमांसं खनतीति । खन + डः ।) काण्ड- मूलम् । इत्यमरः । ३ । ५ । १७ ॥ पुष्कल इति ख्यातम् ॥ (अर्द्धर्च्चादित्वात् क्लीवलिङ्गोऽपि ॥ यथा, रघुः । २ । ३१ । “सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे ॥” मङ्गलाचारः । इति हेमचन्द्रटीका ॥)
