सामग्री पर जाएँ

पुङ्गवः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुङ्गवः, पुं, (पुमान् गौः । “गोरतद्धितलुकि ।” ५ । ४ । ९२ । इति टच् ।) वृषः । (यथा, हरिवंशे । ७५ । ४१ । “भवता रक्षिता लोका गोलोकश्च महालयम् । यद्वयं पुङ्गवैः सार्द्धं वर्द्धामः प्रसवैस्तथा ॥”) औषधभेदः । (पुमान् गौरिव मदबलाद्याति- शय्यादित्युपमितसमासः ।) उत्तरपदस्थः श्रेष्ठ- वाचकः । इति मेदिनी । वे, ४४ ॥ (यथा, भाग- वते । १ । ९ । ३२ । “इति मतिरुपकल्पिता वितृष्णा भगवति सात्त्वतपुङ्गवे विभूम्नि ॥”) ऋषभौषधम् । महोक्षः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=पुङ्गवः&oldid=149246" इत्यस्माद् प्रतिप्राप्तम्