पुटपाक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुटपाकः, पुं, (पुटेन पाकः ।) पुटाभ्यन्तरितौ- षधपचनम् । अथ पुटपाकविधिः । “पुटपक्वस्य कल्कस्य स्वरसो गृह्यते यतः । अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया ॥ पुटपाकस्य पाकोऽयं लेपस्याङ्गारवर्णता । लेपञ्च द्व्यङ्गुलं स्थूले कुर्य्याद्बाङ्गुलिमात्रकम् ॥ काश्मरीवटजम्ब्वादिपत्रैर्वेष्टनमुत्तमम् । पलमात्रो रसो ग्राह्यः कर्षमात्रं मधु क्षिपेत् ॥ कल्कचूर्णद्रवाद्यास्तु देयाः कोलमिता बुधैः ॥ अपि च । द्वे विल्वे स्निग्धमांसस्य परं द्रव्यं पलं मतम् । द्रव्यस्य कुडवोन्मानं सर्व्वमेकत्र पेषयेत् ॥ तदेकत्र समालोड्य पत्रैः सूपरिवेष्टितम् ॥ पुटपाकविधानेन तत् पक्त्वा तद्रसं बुधः । तर्पणोक्तेन विधिना यथावदवचारयेत् ॥ दृष्टिमध्ये निषेच्यः स्यान्नित्यमुत्तानशायिनः । स्नेहनो लेखनश्चैव रोपणश्चेति स त्रिधा ॥ हितः स्निग्धो विरूक्षस्य स्निग्धस्य स तु लेखनः दृष्टेर्ब्बलार्थमितरः पित्तासृग्व्रणवातनुत् ॥ इतरो रोपणः । स्नेहमांसवसामज्जमेदःस्वाद्वौषधैः कृतः । स्नेहनः पुटपाकः स्याद्धार्य्यो द्वे वाक्शते तु सः ॥ वाक्शतं छोटिकाशतम् । जाङ्गलानां यकृन्मांसैर्लेखनद्रव्यसंयुतैः । कृष्णलोहरजस्ताम्रशङ्खविद्रुमसिन्धुजैः ॥ समुद्रफेनकासीसस्रोतोजदधिमस्तुभिः । लेखनो वाक्शतं तस्य परं धारणमिष्यते ॥ स्तन्यजाङ्गलमध्वाज्यतिक्तकद्रव्यभावितः । लेखनात्त्रिगुणो धार्य्यः पुटपाकस्तु रोपणः ॥ तिक्तकद्रव्याण्याह । निम्बामृतावृषपटोलनिदिग्धिकाभिः स्यात् पञ्चतिक्तक इति प्रथितो गणोऽयम् ॥ आचरेत्तर्पणोक्तान्तु क्रियां व्यापत्तिदर्शने ॥ व्यापत्तिदर्शने मिथ्याकृतपुटपाकजनितव्याधि- दर्शने । तेजांस्यनिलमाकाशमादर्शं भास्कराणि च । नैक्षेत तर्पिते नेत्रे यश्च वा पुटपाकवान् ॥” इति भावप्रकाशः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुटपाक¦ पु॰ पुटेन पाकः। पुटपात्रेण{??}षधपाखे तद्विधिभेदो भावप्र॰ उक्तो यथा[Page4351-b+ 38]
“अथ पुटपाकविधिः। पुटपाकस्य कल्कस्य स्वरसां गृह्यतेयतः। अतस्तु पुटपाकानां युक्तिरत्रोच्यते मया। पुटपाकेन पाकोऽयं लेपस्याङ्गारवर्णता। लेपञ्च द्व्यङ्गुलंस्थूलं कुर्य्याद्व्यङ्गुसमाव्यकम्। काश्मरीवटजम्बादिपत्र-वेष्टनमुत्तमम्। पलमात्रो रसो ग्राह्यः कर्षमात्रं अधुक्षिपेत्। कल्कचूर्णद्रवाद्यास्तु देयाः कोलमिता बुधैः”। नेत्ररोगचिकित्सायामन्यस्तत्प्रकार उक्तस्यत्र दृश्यः। चक्रपाणिना तु अन्यथोक्तो यथा
“हस्तप्रमाणवदनं श्व{??} हस्तैकखातसमगध्यम्। कृत्वाकटाहसदृशं तत्र करीषं तुर्षञ्च काष्ठञ्च। अन्तर्घनतर-भर्द्धशुमिरं परिपूर्य्य दहनमायोज्य। पश्चादयसश्चूर्णंश्लक्ष्णं पङ्कोपनं कुर्य्यात्। त्रिफलाम्बुभृङ्गकेसरशताव-रिकाकन्दमानसहजरसैः। भल्लातककरिकर्णच्छदमूलपुन-र्नवास्वरसैः। क्षिप्त्वाथ लोहपात्रे मार्ह वा लौहमार्द-पात्राभ्याम्। तुल्याभ्यां पृ{??}नाच्छाद्यान्ये रन्ध्रमालिप्य। तत्पुटपात्रं तत्र श्वभ्रज्वलने निधाय भूयोभिः। माष्ठ-करीषतुषैस्तत्संच्छाद्याहर्निशं दहेत् प्राज्ञः। एवं भव-भिर्मेषजराजैः पचेत् पुटपाणं। प्रत्येकमेलमेभिर्मिलितैर्या त्रिचतुरान् वारान्। प्रतिपुटनं{??}त् पिंत्यात् ख्या-लीपाकं विधाय तथैव। तादृशि दृशदि न पिंष्यात् विग-लद्रजसा तु युज्यते यत्र। तदयसूर्णं पिष्टं दृष्टंघनसूक्ष्मवाससि श्लक्ष्णम्। यदि रजमा सदृशं स्यात्केतक्यास्तर्हि तद्भद्रम्। पुटने स्थालीपाकेऽधिकृतपुरुषेस्वभावरुगधिगमात्। कथितमपि हेयमौषधमुचितमुपा-देयसन्धदवि”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुटपाक¦ m. (-कः)
1. Digesting, subliming.
2. A method of preparing drugs; in it the various ingredients are wrapped up in leaves covered with clay and baked in fire. E. पुट, and पाक cooking.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुटपाक/ पुट--पाक m. a partic. method of preparing drugs (the various substances being wrapped up in leaves , covered with clay , and heated in fire) Car. Bhpr.
पुटपाक/ पुट--पाक m. digesting , subliming W.
