सामग्री पर जाएँ

पुटम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुटम्, क्ली, (पुटतीति । पुट संश्लेषे + कः ।) जाती- फलम् । इति राजनिर्घण्टः ॥ उपर्य्यधोभावा- पन्नसंयुक्तमृदादिकपालद्वयरूपौषधपाकपात्रम् । धात्वादिमारणोपयुक्तान् पुटप्रकारानाह रस- प्रदीपे । “लोहादेरपुनर्भावस्तद्गुणत्वं गुणाढ्यता । सलिले तरणञ्चापि तत्सिद्धिः पुटनाद्भवेत् ॥ गम्भीरे विस्तृते कुण्डे द्विहस्ते चतुरस्रके । वनोपलसहस्रेण पूरिते पुटनौषधम् ॥ कोष्ठे रुद्धं प्रयत्नेन गोविष्ठोपरि धारयेत् । वनोपलसहस्रार्द्धं कोष्ठिकोपरि निःक्षिपेत् ॥ वह्निं विनिःक्षिपेत्तत्र महापुटमिति स्मृतम् ॥ १ ॥ कोष्ठं मूषा । गोविष्ठा गोइठा । इति महापुटम् ॥ सपादहस्तमानेन कुण्डे निम्ने तथायते । वनोपलसहस्रेण पूर्णमध्ये विधारयेत् ॥ पुठनद्रव्यसंयुक्तां कोष्ठिकां मुद्रितां मुखे । अधोऽर्द्धानि करण्डानि अर्द्धान्युपरि निःक्षिपेत् ॥ एतद्गजपुटं प्रोक्तं ख्यातं सर्व्वपुटोत्तमम् ॥ हस्तश्चतुर्व्विंशत्यङ्गुलप्रमाणः स सपादः तेन त्रिंशदङ्गुलप्रमाणेनेत्यर्थः । अतएवोक्तम् । साधारणो नराङ्गुल्या त्रिंशदङ्गुलको गजः ॥ इति गजपुटम् ॥ २ ॥ अरत्निमात्रके कुण्डे पुटं वाराहमुच्यते ॥ ३ ॥ वितस्तिमात्रके खाते कथितं कौक्कुटं पुटम् । ‘अरत्निस्तु निष्कनिष्ठेन मुष्टिना’ इत्यमरः । २ । ६ । ८६ ॥ निःसृतकनिष्ठया मुष्ट्योपलक्षितो हस्तोऽरत्निरित्यर्थः । षोडशाङ्गुलके खाते कस्यचित् कौक्कुटं पुटम् ॥ ४ ॥ यत् पुटं दीयते खाते ह्यष्टसंख्यैर्वनोपलैः । कपोतपुटमेतत्तु कथितं पुटपण्डितैः ॥ ५ ॥ गोष्ठान्तर्गोखुरक्षुण्णं शुष्कचूर्णितगोमयम् । गोवरं तत् समाख्यातं वरिष्ठं रससाधने ॥ बृहद्भाण्डस्थितैर्यन्त्रैर्गोवरैर्दीयते पुटम् । तद्गोवरपुटं प्रोक्तं भिषग्भिः सूतभस्मकृत् ॥ ६ ॥ बृहद्भाण्डे तुषैः पूर्णे मध्ये मूषां विधारयेत् । क्षिप्त्वाग्निं मुद्रयेद्भाण्डं तद्भाण्डपुटमुच्यते ॥” * ॥ इति भावप्रकाशे पूर्ब्बखण्डे २ भागः ॥

"https://sa.wiktionary.org/w/index.php?title=पुटम्&oldid=149256" इत्यस्माद् प्रतिप्राप्तम्