सामग्री पर जाएँ

पुण्डरीकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुण्डरीकः, पुं, (पुण्डरीकवद्वर्णोऽस्त्यस्येति । अच् ।) अग्निकोणस्थदिग्गजः । व्याघ्रः । इत्यमरः । ३ । ३ । ११ ॥ कोषकारभेदः । इति मेदिनी ॥ सहकारः । गणधरः । राजिलसर्पः । गजज्वरः । इति हेमचन्द्रः ॥ दमनकवृक्षः । इति राजनिर्घण्टः ॥ (धान्यविशेषः । तद्यथा, -- “पुष्पाण्डकः पुण्डरीकस्तथा महिषमस्तकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) कमण्डलुः । श्वेतवर्णः । इत्यनेकार्थकोषः ॥ (क्रौञ्चद्बीपस्थपर्व्वतविशेषः । यथा, मात्स्ये । १२१ । ८१ । “देवावृतः परेणापि पुण्डरीको महान् गिरिः । एते रक्तमयाः सप्त क्रौञ्चद्वीपस्य पर्व्वताः ॥” तीर्थविशेषः । यथा, महाभारते । ३ । ८३ । ७६ । “शुक्लपक्षे दशम्याञ्च पुण्डरीकं समाविशत् । तत्र स्नात्वा नरो राजन् ! पुण्डरीकफलं लभेत् ॥” यज्ञविशेषः । यथा, तत्रैव । ३ । ३० । १७ । “अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः । एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः ॥” नागविशेषः । यथा, तत्रैव । ५ । १०३ । १३ । “नागानामेकवंश्यानां यथाश्रेष्ठन्तु मे शृणु । द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः ॥” रामचन्द्रवंशीयनृपविशेषः । यथा, रघुः । १८ । ८ । “तेन द्बिपानामिव पुण्डरीको राज्ञामजय्योऽजनि पुण्डरीकः । शान्ते पितर्य्याहृतपुण्डरीका यं पुण्डरीकाक्षमिव श्रिता श्रीः ॥” पुण्डरीकाः सन्त्यत्रेति । अच् । पुण्डरीक- विशिष्टे, त्रि । यथा, मात्स्ये । १२० । ६८ । “पयोदस्तु ह्नदो नीलः स शुभः पुण्डरीकवान् । पुण्डरीकात् पयोदाच्च तस्मात् द्बे सम्प्रसूय- ताम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पुण्डरीकः&oldid=149289" इत्यस्माद् प्रतिप्राप्तम्