पुण्डरीकाक्षः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्डरीकाक्षः, पुं, (पुण्डरीकवदक्षिणी नेत्रे यस्य । षच् समासे ।) विष्णुः । इत्यमरः । १ । १ । १९ ॥ (यथा, महाभारते । ५ । ७० । ६ । “पुण्डरीकं परं धाम नित्यमक्षरमव्ययम् । तद्भावात् पुण्डरीकाक्षो दस्युत्रासाज्जनार्द्दनः ॥” “हृदयाख्यपुण्डरीकमश्नुते व्याप्नोति तत्रोपलभ्यत इति पुण्डरीकाक्षः । यत् पुण्डरीकाक्षस्तत्- पुण्डरीकं परममध्यमन्त इति श्रुतेः । अक्षिणी पुण्डरीकाभे यस्येति वा ।” इति शाङ्करभा- ष्यम् ॥) तस्य स्मरणे बाह्याभ्यन्तरशुचित्वं यथा, “अपवित्रः पवित्रो वा सर्व्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥” इति वामने ३३ अध्यायः ॥ (जलचरपक्षिविशेषः । तद्यथा, -- “उत्क्रोशः पुण्डरीकाक्षो मेघरावोऽम्बुकुक्कुटी ॥” इति चरके सूत्रस्थाने २७ अध्याये ॥)
