पुण्डर्य्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्डर्य्यम्, क्ली, (पुण्डतीति । पुडि + अच् । तस्यार्य्यं प्रधानम् । शकन्ध्वादित्वात् साधुः ।) प्रपौण्ड- रीकम् । इत्यमरः । २ । ४ । १२७ ॥ “द्वे हस्तिनां मनुष्याणाञ्च चक्षुष्ये क्षुद्रविटपे शालपर्णीपत्र- तुल्यपत्रे । पुण्डरिया इति ख्याते । प्रकृष्टं पुण्ड- रीकमिव दाहहरणात् प्रपौण्डरीकं ष्णः सुप- ञ्चालादित्वादन्तपदस्यादौ वृद्धिः । पुण्डयति खण्डयति दोषान् पुण्डर्य्यं पुडि मर्द्दे नाम्नीति अर्य्यः पौण्डर्य्यमिति पाठे स्वार्थे ष्णः वृद्धिः पुण्डरीकादिरप्यत्र । ‘स्थलपद्मं साधुपुष्पं दृष्टिकृत् पुण्डरीयकम् ॥’ इति रभसः ।” इत्यमरटीकायां भरतः ॥
