पुण्ड्रः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्ड्रः, पुं, (पुण्ड्यन्ते गुडशर्कराद्यर्थं चूर्णीक्रियते इति । पुडि मर्द्दे + “स्फायितञ्चीति ।” उणा ० २ । १३ । इति रक् ।) इक्षुभेदः । पु~डिआक् इति भाषा । इत्यमरः । २ । ४ । १६३ । दैत्यविशेषः । अतिमुक्तकः । चित्रम् । क्रिमिः । पुण्डरीकम् । देशविशेषे, पुं भूम्नि । इति मेदिनी । रे, ५९ ॥ (यथा, मात्स्ये । ११३ । ४५ । “प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः । शाम्बमागधगोनर्द्दाः प्राच्या जनपदाः स्मृताः ॥”) तिलकवृक्षः । इति हेमचन्द्रः ॥ ह्नस्वप्लक्षः । इति राजनिर्घण्टः ॥ (अश्वदेहस्थचिह्नविशेषः । अस्य लक्षणादिकं पुण्ड्रकशब्दे द्रष्टव्यम् ॥ वलि- राजस्य क्षेत्रजः पुत्त्रविशेषः । यन्नाम्नैव पुण्ड्र- देशो विख्यातः । यथा, महाभारते । १ । १०४ । ४७ -- ५१ । “वलिः सुदेष्णां भार्य्यां स्वां तस्मै तां प्राहिणोत् पुनः । तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् ॥ भविष्यन्ति कुमारास्ते तेजसादित्यवर्च्चसः । अङ्गो वङ्गः कलिङ्गश्च पुण्ड्रः सुह्मश्च ते सुताः ॥ तेषां देशाः समाख्याताः स्वनामप्रथिता भुवि । अङ्गस्याङ्गोऽभवद्देशो वङ्गो वङ्गस्य च स्मृतः ॥ कलिङ्गविषयश्चैव कलिङ्गस्य च स स्मृतः । पुण्ड्रस्य पुण्ड्राः प्रख्याताः सुह्माः सुह्मस्य च स्मृताः ॥ एवं वलेः पुरा वंशः प्रख्यातो वै महर्षिजः ॥”)
