पुण्ड्रक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्ड्रकः, पुं, (पुण्ड्र इव प्रतिकृतिः । “इवे प्रति- कृतौ ।” ४ । ३ । ९६ । इति कन् ।) माधवी- लता । इत्यमरः । २ । ४ । ७२ ॥ (पर्य्यायोऽस्य यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “माधवी स्यात्तु वासन्ती पुण्ड्रको मस्तकोऽपिच । अतिमुक्तो विमुक्तश्च कामुको भ्रमरोत्सवः ॥”) तिलकवृक्षः । (पुण्ड्र + स्वार्थे कन् ।) इक्षुभेदः । पु~डि आक् इति भाषा । तत्पर्य्यायः । रसालः २ इक्षुवाटी ३ योनिः ४ इक्षुयोनिः ५ रसाली ६ रसदालिका ७ करङ्कशालिः ८ । अस्य गुणाः । मधुरत्वम् । शीतलत्वम् । रुचिकारित्वम् । मृदु- त्वम् । पित्तदाहहरत्वम् । वृष्यत्वम् । तेजोबल- विवर्द्धनत्वञ्च । इति राजनिर्घण्टः ॥ (अश्व- शरीरस्थचिह्नविशेषे, पुं, क्ली । यथा, अश्व- वैद्यके । ३ । ७३ -- ८१ । “अत ऊर्द्ध्वं प्रवक्ष्यामि पुण्ड्राणां लक्षणं शुभम् । आनुपूर्ब्ब्या यथादृष्टं मुनिभिस्त्वर्थवेदिभिः ॥ शुक्तिशङ्खगदाखड्गपद्मचक्राङ्कुशोपमाः । शरासनसमाकाराः प्रशस्ताः पुण्ड्रकाः स्मृताः ॥ मत्स्यभृङ्गारप्रासादस्रग्वेदीयूपसन्निभाः । श्रीवृक्षदर्पणाकाराः शुभदाः परिकीर्त्तिताः ॥ शिरोललाटवदनं यः पुण्ड्रो व्याप्य तिष्ठति । स धन्यः पूजितो नित्यमृजुकश्चैव यो भवेत् ॥ पर्व्वतेन्दुपताकाभा ये च स्रग्दामसन्निभाः । ते सर्व्वे पूजिताः पुण्ड्रा धनधान्यफलप्रदाः ॥ इति पुण्ड्राः शुभाः प्रोक्ताः पूर्ब्बशास्त्रानुसारतः । अशुभांश्चैव वक्ष्यामि ययायोगं समासतः ॥ काककङ्ककबन्धाहिगृध्रगोमायुसन्निभाः । असिताः पीतका रक्ताः पुण्ड्रका नैव पूजिताः ॥ तिर्य्यग्गाश्चैव विच्छिन्नाः शृङ्खलापाशसन्निभाः । शूलाग्रा वामदेहस्थाः पुण्ड्रका न शुभाः स्मृताः ॥ जिह्वाकल्मषरूक्षाणि भस्मवर्णनिभानि च । पुण्ड्रकाणि न शस्यन्ते भिन्नवर्णानि वाजिनः ॥” पुण्ड्रदेशनृपतिः । यथा, महाभारते । १ । ४ । २४ । “तथाङ्गवङ्गौ सह पुण्ड्रकेण पाण्ड्यौड्रराजौ च सहान्धकेन ॥”)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्ड्रक पुं।
कुन्दभेदः
समानार्थक:अतिमुक्त,पुण्ड्रक,वासन्ती,माधवी,लता
2।4।72।1।2
अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता। सुमना मालती जातिः सप्तला नवमालिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्ड्रक¦ m. (-कः)
1. A creeper, (Gærtnera racemosa.)
2. A mark on the forehead with Sandal, &c.
3. A sort of sugarcane: see the last. E. कन् added to the preceding.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्ड्रकः [puṇḍrakḥ], 1 A variety of sugar-cane (red-variety); (Mar. पुड्या ऊंस); कृष्टे रोहति दोहदेन पयसां पिण्डेन चेत् पुण्ड्रकः N.21.153.
A sectarial mark.
One who lives by breeding silk worms.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्ड्रक m. ( pl. )the पुण्ड्रs( s.v. ) Mn. x , 44 ( v.l. पौण्ड्) MBh.
पुण्ड्रक m. (sg.) a prince of the -P पुण्ड्रs MBh.
पुण्ड्रक m. N. of sev. plants(= पुण्ड्र) L.
पुण्ड्रक m. a frontal sectarian mark(See. ऊर्ध्व-प्. त्रि-प्)
पुण्ड्रक m. a man who lives by breeding silk-worms Col.
पुण्ड्रक m. N. of a poet (also पुण्ड्रोक) Cat.