पुण्यकव्रतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्यकव्रतम्, क्ली, (पुण्यकं व्रतमिति ।) पतिसौभा- ग्यस्य श्रीकृष्णतुल्यपुत्त्रस्य च जनकः स्त्रीकर्त्तव्य- नियमविशेषः । तस्य विधिर्यथा, -- महादेव उवाच । “हरेराराधनं कृत्वा व्रतं कुरु वरानने ! । व्रतञ्च पुण्यकं नाम वर्षमेकं करिष्यसि ॥ देवि ! शुद्धे च कालेऽत्र परं नियमपूर्ब्बकम् । माघशुक्लत्रयोदश्यां व्रतारम्भः शुभः प्रिये ! ॥ गात्रं सुनिर्म्मलं कृत्वा शिरःसंस्कारपूर्ब्बकम् । उपोष्य पूर्ब्बदिवसे वस्त्रं प्रक्षाल्य यत्नतः ॥ धौते च वाससी धृत्वा उपविश्यासने शुचौ । आचम्य तिलकं कृत्वा निर्व्वाप्य आह्निकं पुरः ॥ घटस्यारोपणं कृत्वा स्वस्तिवाचनपूर्ब्बकम् ॥ पुरोहितस्य वरणं पुरः कृत्वा प्रयत्नतः । संकल्प्य वेदविहितं व्रतमेतत् समाचरेत् ॥ व्रते द्रव्याणि नित्यानि चोपहाराणि षोडश । देयानि नित्यं देवेशि ! कृष्णाय परमात्मने । आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् ॥ मधुपर्कश्च स्नानीयं वस्त्राण्याभरणानि च । सुगन्धिपुष्पं धूपश्च दीपनैवेद्यवन्दनम् ॥ यज्ञसूत्रञ्च ताम्बूलं कर्पू रादिसुवासितम् । द्रव्याण्येतानि पूजायाश्चाङ्गरूपाणि सुन्दरि ! ॥ देवि ! किञ्चिद्बिहीनेनैवाङ्गहानिः प्रजायते । अङ्गहीनञ्च यत् कर्म्म चाङ्गहीनो यथा नरः ॥ अङ्गहीने च कार्य्ये च फलहानिः प्रजायते । अष्टोत्तरशतं पुष्पं पारिजातस्य विष्णवे । देयं प्रतिदिनं दुर्गे ! स्वात्मनो रूपहेतवे ॥ श्वेतचम्पकपुष्पाणां लक्षमक्षतमीप्सितम् । प्रदेयं हरये भक्त्या बहुसौन्दर्य्यहेतवे ॥ पुत्त्रस्ते भविता साध्वीत्युक्त्रा च विरराम ह ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ३-४ । अध्यायौ ॥
