पुण्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्यम्, क्ली, (पूयतेऽनेनेति । पू + “पूङो यण्णुक् ह्नस्वश्च ।” उणा० ५ । १५ । इति यत् णुगागमो ह्नस्वश्च ।) शुभादृष्टम् । तत्पर्य्यायः । धर्म्मम् २ श्रेयः ३ सुकृतम् ४ वृषः ५ । इत्यमरः । १ । ४ । २४ ॥ पुण्यभारवोढुमशक्तस्य पण्डितस्य निन्दा यथा, अग्निपुराणे । “पण्डितेनापि किन्तेन समर्थेन च देहिनाम् । यत् पुण्यं भारमुद्वोढुमशक्तं पारलौकिकम् ॥” आत्मकृतपुण्यकथननिषेधो यथा, -- “इष्टं दत्तमधीतं वा विनश्यत्यनुकीर्त्तनात् । श्लाघानुशोचनाभ्याञ्च भग्नतेजो विभिद्यते ॥ तस्मादात्मकृतं पुण्यं वृथा न परिकीर्त्तयेत् ॥” इति शुद्धितत्त्वे देवलः ॥ * ॥ अदत्तपुण्यभागित्वं पापशब्दे द्रष्टव्यम् ॥ * ॥ शोभनकर्म्म । पावनम् । सुन्दरे, त्रि । इति हेमचन्द्रः ॥ सुगन्धि । इति जटाधरः ॥
