पुण्यश्लोकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुण्यश्लोकः, पुं, (पुण्यः पुण्यदायकः श्लोको यश- श्चरित्रं वा यस्य ।) विष्णुः । इति श्रीभाग- वतम् ॥ युधिष्ठिरः । इति महाभारतम् ॥ नल- राजः । इति त्रिकाण्डशेषः ॥ (यथा, महा- भारते । ३ । ७४ । ११ । “पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः ॥”) पुण्यचरित्रे, त्रि ॥ (यथा, भागवते । १ । १४ । १ । “संप्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुञ्च पुण्यश्लोकस्य कृष्णस्य च विचेष्ठितम् ॥”)
