सामग्री पर जाएँ

पुण्यात्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुण्यात्मन्¦ त्रि॰ पुण्य आत्मा यस्य। पुण्यस्वभावे तेषां पर-लोकगतिप्रकारः पद्मपु॰ क्रिया॰ उक्तो यथा
“सुप्रज्ञोवाच शृणु विप्र! प्रवक्ष्यामि यत्त्वया श्रोतुमि-ष्यते। पुण्यात्मनां पापिनाञ्च पन्थानं सुखदुःखदम्। आदौ व्रवीमि पन्यानं नृणां पुण्यवतामहम्। शृणुष्वद्विजशा{??}ल! शृण्वतां प्रीतिवर्द्धनम्। प्रस्तरैरिष्टकैर्बद्धोदिव्यवस्नैः समावृतः। भाति पुण्यात्मनां पन्थाःसर्वोपद्रपवर्जितः। क्वचिद्गन्धर्वकन्याभिर्गीयते गानमुत्तमम्। क्वचिन्मञ्जुशरीराभिरप्सरोभिश्च नृत्यते। क्वचिच्चवीणास्तणनं नानावाद्यं मनोहरभ्। क्वचित् कुसुम-वृष्टिश्च क्वचिद्वायुः सुशीतलः। कचित् क्वचिद्दीर्घिकाश्च[Page4356-b+ 38] फुल्लषद्मसुशोभिताः। क्वचित्पुण्याः शीततोयाः कुत्र-चित् भक्तशालिकाः। क्वचिद्देवाश्च गन्धर्वाः पठन्तस्तवमु-त्तमम्। सुच्छायाः पादपाः क्वापि पुष्पिता वञ्जुलादयः। समस्तसुखसम्पन्ने पथि गच्छन्ति मानवाः। पुण्यात्मानोद्विजश्रेष्ठ! सुखमृत्युमवाप्य च। केचित्तुरङ्गमारूढानानालङ्कारभुषिताः। उद्दण्डधवलच्छत्रैर्गच्छन्त्यावृतमस्तकाः। केचिद्यान्ति गजारूढा रथारूढाश्च केचन। यानारूढा जनाः केचित् सुखेन यममन्दिरम्। केचिद्दे-वाङ्गनाहस्तन्यस्तचामरवायुभिः। गच्छन्ति वीजितामर्त्याः स्तूयमानाः सुरर्षिभिः। केचिद्दिव्याम्बरधराःसुचन्दनविभूषिताः। भुञ्जतो यान्ति ताम्बूलं पुण्या-त्मानो यमालयम्। निजगात्रत्विषा केचिज्वालयन्तोदिशो दश। व्रजन्ति शमनागारं चलद्गृहनिवासिनः। केचिच्च पायसं दिव्यं भुञ्जन्तो यान्ति सत्तमाः सुधापानंप्रकुर्वन्तः पथि गच्छन्ति केचन। केचिद्दुग्धं पिबन्तश्चकेचिदिक्षुरसं तथा। केचित्तक्रं पिवन्तश्च गच्छन्तियममन्दिरम्। केचिद्दधीनि खादन्तः केचिन्नानाफलानिच। केचिन्मधु पिबन्तश्च पुण्यवन्तो व्रजन्ति वै। तानागतांस्ततो दृष्ट्वा नरान् धर्मपरायणान्। भास्करिः प्रीतिमासाद्य स्वयं नारायणो भवेत्। चतुर्बाहुः श्यामवर्णःप्रफुल्लकमलेक्षणः। शङ्खचक्रगदापद्मधारी गरुडवाह-नः। स्वर्णयज्ञोपवीती च स्मेरचारुतराननः। कि-रीटी कुण्डली चैव वनमालाविभूषित। चित्रगुप्तोमहाप्राज्ञश्चण्डाद्या यमकिङ्कराः। सर्वे नारायणाकारावभूवुर्मधुरोक्तयः। ततः स्वयं धर्मराजस्तान् सर्वान्मनुजोत्तमान्। परमां प्रीतिमासाद्य सित्रवत् पूजयेद्-द्विज!। दिव्यैर्वन्यैः फलैश्चैव तेषां पुण्यवतां नृणाम्। भोजनं कारयित्वा तु तानुवाचाथ भास्करिः। यम उवाच
“यूयं सर्वे महात्मनो नरकक्लेशभीरवः। निजपुण्यप्रभावेन गम्यतां परमं पदम्। संसारे जन्म संप्राप्यपुण्यं यः कुरुते नरः। स मे पिता स मे भ्राता स मेबन्धुः स मे सुहृत्। इत्युक्ता धर्मराजेन ते सर्वे द्विज-सत्तम!। दिव्यं रथं समारुह्य नारायणपुरं ययुः”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुण्यात्मन्¦ mfn. (-त्मा-त्मा-त्म) Holy, pious. E. पुण्य, and आत्मन् spirit.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुण्यात्मन्/ पुण्या mfn. " Pure-souled " , virtuous , pious Ka1v. Hit.

"https://sa.wiktionary.org/w/index.php?title=पुण्यात्मन्&oldid=306582" इत्यस्माद् प्रतिप्राप्तम्