पुत्त्रकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुत्त्रकः, पुं, (पुत्त्र + स्वार्थे संज्ञायामनुकम्पायां वा कन् ।) पुत्त्रः । (यथा, विष्णुपुराणे । १ । ११ । २१ । तथापि दुःखं न भवान् कर्त्तुमर्हति पुत्त्रक ! । यस्य यावत् स तेनैव स्वेन तुष्यति बुद्धिमान् ॥”) शरभः । धूर्त्तः । शैलविशेषः । वृक्षभेदः । इति मेदिनी । के, १२४ ॥ पतङ्गकः । अनुकम्पान्वित- जनः । इति शब्दरत्नावली ॥
