पुत्त्रजीवः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुत्त्रजीवः, पुं, (पुत्त्रं गर्भं जीवयतीति । जीवि + अण् ।) वृक्षविशेषः । जियापुता इति भाषा । तत्पर्य्यायः । श्लीपदापहः २ । इति त्रिकाण्ड- शेषः ॥ कुमारजीवः ३ पुत्त्रञ्जीवकः ४ । इति रत्नमाला ॥ पवित्रः ५ गर्भदः ६ सुतजीवकः ७ ॥ अस्य गुणाः । हिमत्वम् । वृष्यत्वम् । श्लेष्मगर्भ- जीवदातृत्वम् । चक्षुष्यत्वम् । पित्तशमनत्वम् । दाहतृष्णानिवारणत्वञ्च । इति राजनिर्घण्टः ॥ गुरुत्वम् । वातकारित्वम् । सृष्टमूत्रमलत्वम् । स्वादुत्वम् । पटुत्वम् । कटुत्वम् । इति भाव- प्रकाशः ॥
