सामग्री पर जाएँ

पुत्त्रदात्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुत्त्रदात्री, स्त्री, (पुत्त्रं ददाति सेवनेनेति । दा + तृच् + ङीप् । बन्ध्यादोषनाशित्वादस्यास्तथा- त्वम् ।) मालवे प्रसिद्धो लताविशेषः । तत्- पर्य्यायः । वातारिः २ भ्रमरी ३ श्वेतपुष्पिका ४ वृतपत्रा ५ अतिगन्धालुः ६ वेशीजाता ७ सुव ल्लरी ८ । अस्या गुणाः । वातकटूष्णकफनाशि- त्वम् । सुरभित्वम् । सर्व्वदा पथ्यत्वम् । बन्ध्या- दोषनाशित्वञ्च । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=पुत्त्रदात्री&oldid=149354" इत्यस्माद् प्रतिप्राप्तम्