पुत्त्रिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुत्त्रिका, स्त्री, (पुत्त्री + स्वार्थेकन् टाप् । “केऽणः ।” ७ । ४ । १३ । इति ह्नस्वः ।) कन्या । तत्- पर्य्यायः । आत्मजा २ दुहिता ३ पुत्त्री ४ तनुजा ५ सुता ६ अपत्यम् ७ पुत्त्रका ८ स्वजा ९ तनया १० नन्दिनी ११ । इति शब्दरत्नावली ॥ (यथा, पञ्चतन्त्रे । ३ । २२१ । “पुत्त्रिकाब्रवीत् । तात ! अतिदहनात्मकोऽयं नाहमेनमभिलषामि ॥” पुत्त्रीव प्रतिकृति- रस्या इति । पुत्त्री + “इवे प्रतिकृतौ ।” ५ । ३ । १६ । इति कन् ह्नस्वश्च ।) पुत्तलिका । यावतूलकः । इति मेदिनी । के, १२४ ॥ (यथा, सुश्रुते सूत्रस्थाने । १६ अध्याये । “पीठोपमपालिरुभयतः क्षीणपुत्त्रिकाश्रितो निर्व्वेधिमःस्थूलाणुसम विषमपालिव्या योजिमः ॥” पुत्त्रस्वरूपत्वेन कृता कन्या । तद्गर्भजातः पुत्त्रस्तु कन्यादातुः पुत्त्रो भवतीति । यथा, मनौ । ९ । १२७ -- १२८ । “अपुत्त्रोऽनेन विधिना सुतां कुर्व्वीत पुत्त्रिकाम् । यदपत्यं भवेदस्यां तन्मम स्यात् स्वधाकरम ॥” यथा च महाभारते । १ । ६६ । १२ । “ताः सर्व्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः । पुत्त्रिकाः स्थापयामास नष्टपुत्त्रः प्रजापतिः ॥”)
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुत्त्रिका¦ f. (-का)
1. A daughter.
2. A doll, a puppet.
3. The cotton or pappus of the tamarisk. E. पुत्त्री a daughter, कन् aff.
