पुत्त्री
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुत्त्री, [न्] पुं, (पुत्त्रोऽस्यास्तीति । पुत्त्र + इनिः ।) पुत्त्रयुक्तः । पुत्त्रशब्दादस्त्यर्थे इन्प्रत्ययनिष्पन्नः ॥ यथा, -- “ज्येष्ठेन जातमात्रेण पुत्त्री भवति मानवः । पितॄणामनृणश्चैव स तस्माल्लब्धुमर्हति ॥ इति मनुः ॥
पुत्त्री, स्त्री, (पुत्त्र + “शार्ङ्गरवाद्यञो ङीन् । ४ । १ । ७३ । इति ङीन् । यद्बा, गौरादित्वात् ङीष् ।) सुता । इति हलायुधः ॥ अस्याः पर्य्यायः पुत्त्रिकाशब्दे द्रष्टव्यः । वृक्षविशेषः । इति शब्दचन्द्रिका ॥
