पुत्त्रीयम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुत्त्रीयम्, त्रि, (पुत्त्रस्य निमित्तं संयोग उत्पातो- वेति । पुत्त्र + “पुत्त्राच्छ च ।” ५ । १ । ४० । इति छः ।) पुत्त्र्यम् । (यथा, महाभारते १ । ६७ । १६३ । “धन्यं यशस्यं पुत्त्रीयमायुष्यं विजयावहम् । इदमंशावतरणं श्रोतव्यमनसूयता ॥” यथा च रघौ । १० । ४ । “ऋष्यशृङ्गादयस्तस्य सन्तः सन्तानकाङ्क्षिणः । आरेभिरे जितात्मानः पुत्त्रीयामिष्टिमृत्विजः ॥” “पुत्त्रीयां पुत्त्रनिमित्ताम् ।” इति तट्टीकायां मल्लिनाथः ॥”) पुत्त्रसम्बन्धि । पुत्त्रस्येदमित्यर्थे ईयप्रत्ययनिष्पन्नम् । इति व्याकरणम् ॥
