सामग्री पर जाएँ

पुत्त्रेष्टिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुत्त्रेष्टिः, स्त्री, (पुत्त्रनिमित्तिका इष्टिरिति मध्य- पदलोपी समासः ।) पुत्त्रनिमित्तकयागविशेषः । इति जटाधरः ॥ यथा, -- “गृहीत्वा पञ्चवर्षीयं पुत्त्रेष्टिं प्रथमञ्चरेत् ॥” इति स्मृतिः ॥ (अस्याः क्रियाविशेषो यथा, -- “ततः पुत्त्रकामा पश्चिमतोऽग्निं दक्षिणतो ब्राह्मण- मुपवेश्यान्वालभेत सह भर्त्रा यथेष्टं पुत्त्रमाशा- साना । ततस्त्वस्या आशासानाया ऋत्विक् प्रजापतिमभिनिर्द्दिश्य योनौ तस्याः कामपरि- पूरणार्थं काम्यामिष्टिं निर्व्वपेद्विष्णुर्योनिं कम्पय- त्वित्यन्वयार्च्चा ततश्चैवाज्येन स्थालीपाकमयभिः संसार्य्य त्रिर्जुहुयात् । यथाम्नायञ्चोपमन्त्रितमुद- पात्रं तस्यै दद्यात् सर्व्वोदकार्थान् कुरुष्वेति । ततः समाप्ते कर्म्मणि पूर्ब्बं दक्षिणपादमभि- हरन्ती प्रदक्षिणमग्निमनुपरिक्रामेत् ततो ब्राह्म- णान् स्वस्ति वाचयित्वा सह भर्त्राज्यशेषं प्राश्नी- यात् । पूर्ब्बं पुमान् पश्चात् स्त्री नचोच्छिष्ट- मवशेषयेत् ततस्तौ सहसंवसेतामष्टरात्रं तथा- विधपरिच्छदावेव तथेष्टपुत्त्रं जनयेताम् । या तु स्त्रीश्यामं लोहिताक्षं व्यूढोरस्कं महाबाहुं पुत्त्रमाशासीत । या वा कृष्णं कृष्णमृदुदीर्घकेशं शुक्लाक्षं शुक्लदन्तं तेजस्विनमात्मवन्तम् । एष एवानयोरपि होमविधिः किन्तु परिवर्हवर्णवर्ज्ज्यं स्यात् पुत्त्रवर्णापुरूपस्तु यथाशीरेव तयोः परि- वर्होऽन्यः कार्य्यः स्यात् ।” इति चरके शारीर- स्थानेऽष्टमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=पुत्त्रेष्टिः&oldid=149376" इत्यस्माद् प्रतिप्राप्तम्