सामग्री पर जाएँ

पुत्रिकापुत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुत्रिकापुत्र¦ पु॰ पुत्रिकैव पुत्रः

६ त॰ वा।

१ पुत्रिकारूपपुत्रे

२ पुत्रिकायाः पुत्रे च यथाह वशिष्ठः
“अभ्रातृकां प्रदास्यामितुभ्यं कन्यामलङ्कृताम्। अस्यां यो जायते पुत्रः स मेपुत्रो भवेदिति”।
“अथ वा पुत्रिकैव सुतः पुत्रिका-सुतः सोऽप्यौरससम एव पित्रवयवानामल्पत्वान्मात्रबय-वानां वाहुल्याच्च यथाह वशिष्ठः
“द्वितीयः पुत्रिकैवेति। द्वितीयः पुत्रः कन्यैवेत्यर्थः इति, मिताक्षरा। अत्र बि-शेषो दायभागोक्तो यथा
“तत्र पुत्रिकौरसयोस्तुल्यांशित्वंन पुनः पुत्रिकाया ज्येष्ठत्वेन विंशोद्धारार्हता तदाहमनुः
“पुत्रिकायां कृतायान्तु” (इत्यादि अनुपदमुक्तम्)खतो ज्येष्ठपुत्रकार्यकरणात् स्वपुत्रद्वारेण पुत्रिकायाःपिण्डदातृत्वात्। तदाह मनुः
“अपुत्रोऽनेन विधिना” (इत्यादि उक्तम्)। न च पुत्रिकायामेव प्रथमं पुत्रे जाते[Page4360-b+ 38] तदनन्तरमौरसपुत्रोत्पत्तौ पुत्रिकापुत्रस्य ज्येष्ठाशता भ-वेदिति वाच्यं तस्य पौत्रत्वात् तदाह मनुः
“अकृता वाकृता वापि यं विन्देत् सदृशात् सुतम्। पौत्री माता-महस्तेन दद्यात् पिण्डं हरेद्धनम्”। पुत्रिका हि पुत्र-स्तस्याः पुत्रः पौत्र एव भवति तद्वांश्च पौत्री भवति नच ज्येष्ठत्वेन पौत्रस्यांशातिरेकः श्रुतोऽस्ति”। यत्तु वशि-ष्ठवचनम्
“अभ्रातृकां प्रदास्यामि” (इत्यादि उक्तम्)। पुत्रिकापुत्रस्यैव पुत्रत्वं वदति तेन पुत्रिकायास्तत्पुत्त्रस्यच पुत्त्रत्वं तन्न मनुविरोधात् पिण्डदानमात्रयोगात्पुत्त्रत्वमस्य गौणं तद्द्वारेणैव पुत्रिकायाः पिण्डदातृ-त्वात् एकस्य स्वतोऽन्यस्य तद्योगात्। पुत्रिकौरसयोस्तुसवर्णत्वे सति पूर्वोक्तविभागो बोद्धव्यः असवर्णत्वे तयो-रसवर्णौरसपुत्त्रवदेव विभागः पुत्रिकौरसयोः समान-त्वात्। यदि च कृतापि पुत्त्रमनुत्पाद्यैव विधवा भूताबन्ध्यात्वेनवाऽवधृता तदा तस्याः पितृधनेऽनधिकारःस्वधाकरपुत्त्रार्थं पुत्रिकायाः कृतत्वात् तदभावे दुहित्र-न्तरतुल्यत्वात्” दा॰ भा॰। व्याकृतं चैतत् श्रीकृष्णेन
“ज्येष्ठताश्रेष्ठता सा च पुन्नामनरकत्राणनिबन्धना तदभावात्श्रेष्ठत्वाभाव इत्याह स्वत इति साक्षादित्यर्थः। ज्येष्ठत्वेनेति। ज्येष्ठपुत्रकार्यं पुन्नामनरकत्राणं तदकर-णात्। तर्हि पुत्रिकाकरणं किमर्थमत आह स्वपुत्र-द्वारेणेति। स्वधाकरं त्रिविधक्रियाकरम् अन्यथा स्वधा-करशब्दस्य श्राद्धकरणमात्रार्थत्वे दौहित्रान्तरसाधारण्यात्पुत्रिकाकरणवैयर्थ्यापत्तेः। एतेन पुत्रिकापुत्रसत्त्वेऽपिपुत्रिकाया एव प्रेतकृत्याधिकार इति मतमपि निरस्तमिति वेदितव्यं तथा च परम्परयोपकारार्थमेव पुत्रि-कापुत्रकरणमिति भावः। ज्येष्ठांशतेति। तस्य साक्षादेवज्येष्ठपुत्रकार्यकरणादिति भावः। पौत्रत्वादिति आति-देशिकपौत्रत्वादित्यर्थः। मनुविरोधादिति। न च विनिग-मनाविरहः किं मनुविरोधात् वशिष्ठोक्तं पुत्रत्वंगौणं, किं वा वशिष्ठविरोधात् मनूक्तं पौत्रत्वमेव गौ-णमिति वाच्यं मनुस्मृतेः सर्वस्मृतिप्रवलत्वस्यैव विनि-गमकत्वात्। पुत्रत्वं पुत्रव्यपदेशः। गौणमिति पिण्ड-दातृत्वस्य मुख्यपुत्रगुणस्य योगात् गौणता वोध्या। पिण्डदानयोगमेवोपपादयति तद्द्वारेणैवेति। एकस्यपुत्रिकापुत्रस्य, अन्यस्य पुत्रिकास्वरूपस्य तद्योगात् पुत्र-त्वयोगात्। न च परम्परया पिण्डदानापेक्षया साक्षात्पिण्डदानस्य बलवत्त्वेन पुत्रिकापुत्रस्यैव पुत्रत्वं न्यार्य्य[Page4361-a+ 38] न तु पुत्रिकाया इति वाच्यं पुत्रिकाया अङ्गजत्वात्तदधीनजन्मतया च तत्पुत्रस्य पिण्डदानयोगात् तस्याएवोत्कर्षेण पुत्रत्वौचित्वात्। एतन्न्यायादेव अपुत्रि-काया अपि दुहितुरभाव एव दौहित्रस्यैव प्रागधि-कारोपपत्तिः। अतएव समस्तत्नेत्यनेन पुत्रिकौरसयोरेवसगभागिता मनूक्ता न तु तस्याः पुत्रस्य औरससम-गिता केनाप्युक्तेति। इत्थञ्च
“पुत्रिकापुत्र एव चेति” द्वादशविधपुत्रगणनायां कर्मधारयो न तु तत्पुरुष इतिविभावनीयम्। पूर्वोक्तविभाग इति समभाग इत्यर्थः”। अपत्यधनाधिकारे च दाय॰ मा॰ कश्चिद्विशेष उक्तो यथा
“यतएव स्वपुत्त्रद्वारेण पिंण्डदातृतया दुहितुः पितृधना-धिकारः अतएव पुत्रिकाया अपि पित्रुपरमजातघन-सम्बन्धायाः पश्चाद्बन्ध्यात्वेन तद्भ्र्त्तुर्वा प्रसवासाम-र्य्येन विपर्य्यस्त पुत्त्राया मरणे तद्धनं न भर्तुः। यथाशङ्खलिखितौ
“प्रेतायाः पुत्रिकायास्तु न भर्त्ता द्रव्यम-र्हत्यपुत्त्रायाः”। तथा पैठीनसिः
“प्रेतायां पुत्रिकायान्तुन भर्त्ता द्रव्यमर्हति। अपुत्त्रायां, कुमार्य्या वा स्वस्राग्राह्यं तदन्यया”। ततः कुमार्य्या स्वस्रा अन्यया वापुत्त्ववत्या सम्भावितपुत्त्रया स्वस्रा तद्धनं ग्राह्यम्। अतःस्त्यधिकारे व्यावृत्तिरन्याधिकारस्य। यत्तु मनुवचनम्
“अपुत्त्रायां मृतायान्तु पुत्रिकायां कथञ्चन। धनं तत्पुत्रिकाभर्त्ता हरेतैवाविचारयन्”। तदविपर्य्यस्तपुत्त्रा-या अनुत्पन्नमृतपुत्त्रायाः पुत्त्रिकाया मरणे वेदितव्यम्”
“विपर्य्यस्तपुत्त्रायाः पुत्त्रात्यन्ताभाववत्याः। तद्धनंग्राह्यमिति। तदपि पत्न्यभावे कुमार्य्यादौनां पत्नीबा-ध्यत्वादिति बोध्यम्। अत इति उक्तोभयसूत्राभ्यां विपर्य्यस्तपुत्त्रायाः पुत्त्रिकायामरणे कुमार्य्यादीनामधिकारेप्राप्ते भर्तुरधिकारस्य व्यावृत्तिरिति समग्रोपसंहारः। प्राञ्चस्तु यतः पुत्त्रिकाया एव विपर्य्यपुत्त्रायामरणे नतत्संक्रान्तदाये भर्तुरधिकारोऽतः स्त्र्यधिकारे अन्यासांदुहित्रादीनामप्यधिकारेऽनन्तरं विपर्य्यस्तपुत्त्राणां तासांमरणे भर्तुरधिकारस्य व्यावृत्तिरिति व्याचक्रः। तदवि-पर्य्यस्तपुत्त्राया इति। एतस्यैव बिवरणम् अनुत्पन्नमृत-पुत्त्राया इति। अत्र पक्षान्तराभावात् चकारः क्वाचित्कः पाठः प्रामादिकः। अथात्र शङ्खलिखितादिवचनमेवउत्पन्नमृतपुत्त्राविषयं मनुवचनन्तु अनुत्पन्नपुत्त्राविषय-मिति वैपरीत्यमेव न कुतः? उत्पन्नपुत्त्राया, इवावि-पर्य्यस्तपुत्त्रायाः पुत्त्रात्पत्त्यैव पितुः पुन्नामनरकनिवर्त्त-[Page4361-b+ 38] कत्वेन कृतोपकारकतया स्वामित्वे निर्व्यूढे पितुरित-रापेक्षया तस्या एवाधिकोपकारित्वात् तद्भर्तुरधिकारोयुक्तः अतएव
“दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि” इत्यनेन दौहित्रमुखदर्शनस्यापि नरकनिस्तारकतेति। पुत्त्रानुत्पत्तौ तु पित्रु पकाराभावात् तस्या एव न स्वा-मित्वं कुतस्तत्पत्य रिति तत्पितृधनाधिकारिणां कन्या-दीनामेव तदानीं तत्राधिकारस्य न्याय्यत्वात्। यद्यपिबन्ध्यात्वेनावधृतायां जीवन्त्यामप्येवमुचितं तथापिप्रेताया इति ग्रहणात् न जीवन्त्यां तस्याम् अन्यदुहि-त्रादीनामधिकार इति” श्रीकृष्णव्याख्या।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

PUTRIKĀPUTRA : A son born to a woman who is either a prostitute or one without a brother. (Śloka 11, Chapter 3, Manusmṛti).


_______________________________
*5th word in left half of page 625 (+offset) in original book.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुत्रिकापुत्र पु.
(पुत्रिकायाः पुत्रः) नियुक्त पुत्री का पुत्र, बौ.श्रौ.सू. 2.3; कार्यसम्पादक ऋत्विज् इस प्रकार का नहीं होना चाहिए, श्रौ.को. (अं.) 1.8।

"https://sa.wiktionary.org/w/index.php?title=पुत्रिकापुत्र&oldid=479285" इत्यस्माद् प्रतिप्राप्तम्