पुद्गलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुद्गलः, पुं, (पूरणात् पुत् गलनात् गलः । ततः कर्म्म- धारयः । वृद्धिह्नासवत्त्वाद्देहस्य तथात्वम् ।) देहः । (यथा, पार्श्वनाथचरिते । १२ । ११० । “चक्रुः शिरसि भाले च नेत्रे सर्व्वाङ्गपुद्गले ॥”) आत्मा । इति शब्दरत्नावली ॥ परमाणुः । यथा, -- “स्थूला मध्यास्तथा सूक्ष्माः सूक्ष्मात् सूक्ष्म- तराश्च ये । देहभेदा भवान् सर्व्वे ये केचित् पुद्गलाश्रयाः ॥” इति विष्णुपुराणे ५ अंशे २० अध्यायः ॥ “पूर्य्यन्ते गलन्ति चेति पुद्गलाः । वृद्ध्यपक्षय- भाजो येऽवयवास्तदाश्रया देहभेदाः । यथाहुः । पूरणाद्गलनाद्देहे पुद्गलाः परमाणव इति ।” इति तट्टीकायां श्रीधरस्वामी ॥
पुद्गलः, त्रि, (पुत् वर्द्धनशीलः गलो ह्नासवांश्चेति कर्म्मधारयः ।) सुन्दराकारः । इति शब्द- रत्नावली ॥ रूपादिमद्द्रव्यम् । इति हेम- चन्द्रः ॥
