पुनरुक्तम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुनरुक्तम्, क्ली, (वच + भावे क्तः । पुनः पुनर्व्वार- मुक्तम् ।) पुनर्व्वारकथनम् । यथा, -- “आपाततो यदर्थस्य पौनरुक्त्येव भाषणम् । पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥” इति साहित्यदर्पणम् ॥ (यथाह गोतमः । ५ । ५७ -- ५८ । “शब्दार्थयोः पुनर्व्वचनं पुनरुक्तमन्यत्रानु- वादात् ॥” “पुनर्वचनं पुनरुक्तं तस्य विभागार्थं शब्दार्थयो- रिति । तेन शब्दपुनरुक्तमर्थपुनरुक्तञ्च लभय्ते । अनुवादेऽतिव्याप्तिवारणाय अन्यत्रानुवादादिति अनुवादान्यत्वे सतीत्यर्थः । निष्प्रयोजनं पुन- रभिधानं हि पुनरुक्तं अनुवादस्तु व्याख्यारूपः सप्रयोजनक एवेति भावः । तथाच समा- नार्थकपूर्ब्बानुपूर्ब्बीकशब्दप्रयोगः शंब्दपुनरु- क्तम् । समानार्थकभिन्नानुपूर्ब्बीकशब्दस्य निष्प्रयो- जनं पुनरभिधानमर्थपुनरुक्तम् । आद्यं यथा घटो घट इति । द्वितीयं यथा, घटः कलस इति । एतस्य प्रमादादिना सम्भवः ॥” * ॥ पुनरुक्तभेदान्तरमाह । “अर्थादापन्नस्य स्वशब्देन पुनरभिधानम् ।” “पुनरुक्तमित्यनुवर्त्तते । यस्मिन्नुक्ते यस्यार्थस्यौत्- सर्गिकी प्रतिपत्तिर्भवति तस्य तेन रूपेण पुनरभिधानं पुनरुक्तम् । इदमेव च अर्थपुन- रुक्तमिति गीयते । यथा वह्निरुष्ण इति पूर्ब्ब- पदाक्षिप्तोक्तिरियम् । उष्णो वह्निरिति उत्तर- पदाक्षिप्तोक्तिः । एवं बहिरस्ति गेहे नास्तीति विध्याक्षिप्तोक्तिः । जीवन् गेहे नास्ति बहि- रस्तीति निषेधाक्षिप्तोक्तिः । पुनरुक्तत्रैविध्यञ्चेदं भाष्यादि सम्मतम् । तस्यैव शब्दस्य पुनरभि- धानं पर्य्यायेणाभिधानम् अन्यत् पुनरर्थपुन- रुक्तमित्याहुः ॥” * ॥ पुनर् + वच + कर्म्मणि क्तः । पुनःकथिते, त्रि । यथा, महाभारते । ८ । ४ । १३ । “ब्रूहि सञ्जय ! तत्त्वेन पुनरक्तां कथामिमाम् ॥”)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुनरुक्तम्/ पुनर्--उक्तम् ind. 125706
