पुनर्नवा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुनर्नवा, स्त्री, (छिन्नायां पुनरपि नवा । यद्वा, पुनर्भूयोभूयः नूयते स्तूयते इति । नु स्तुतौ + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् । ततष्टाप् । क्षुभ्नादित्वात् न णत्वम् ।) शाकविशेषः । तत्पर्य्यायः । शोथघ्नी २ वर्षाभूः ३ प्रावृषा- यणी ४ कठिल्लकः ५ । एता अरुणाः ॥ श्वेतायाः पर्य्यायः । वृश्चीराः २ चिराटिका ३ । इति रत्नमाला ॥ विशाखः ४ कठिल्लः ५ शशि- वाटिका ६ पृथ्वी ७ सितवर्षाभूः ८ घनपत्रः ९ कठिल्लकः १० । अस्या गुणाः । उष्णत्वम् । तिक्तत्वम् । कफकासहृद्रोगशूलास्रपाण्डुशोफा- निलनाशित्वञ्च । इति राजनिर्घण्टः ॥ भेदक- म्वम् । रसायनत्वम् । आमदुर्नामव्रध्नोदरनाशि- त्वञ्च । इति राजवल्लभः ॥ * ॥ “पुनर्नवा श्वेतमूला शोथघ्नी दीर्घपत्रिका । कटुः कषाया रुच्यर्शःपाण्डुहृद्दीपनी परा ॥ शोफानिलगरश्लेष्महरी व्रध्नोदरप्रणुत् ॥ * ॥ पुनर्नवा परा रक्ता रक्तपुष्पानिलाटिका । शोथघ्नी क्षुद्रवर्षाभूर्वर्षकेतुः कठिल्लकः ॥ पुनर्नवारुणा तिक्ता कटुपाका हिमा लघुः । वातला ग्राहिणी श्लेष्मपित्तरक्तविनाशिनी ॥” इति भावप्रकाशः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुनर्नवा स्त्री।
पुनर्नवा
समानार्थक:पुनर्नवा,शोथघ्नी
2।4।149।1।1
पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम्. स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुनर्नवा¦ स्त्री पुनर्नवा पुनर्नूयते नू--अप् वा क्षुभ्रादेराकृतिगणत्वात् न णत्वम्। शोथघ्न्यां (पुनपुना) शाकभेदेअमरः। सा च द्विविधा श्वेता रक्ता च तयोर्गुणादिभावप्र॰ उक्तं यथा
“पुनर्नवा श्वेतमूला शोथघ्नी दीर्घपत्रिका। कटुः कषा-याऽरुच्यर्शःपाण्डुहृद्दीपनी परा। शोफानिलगरश्लेष्महरी ब्रध्नोदरप्रणुत्। पुनर्नवाऽपरा रक्ता रक्तपुष्पानिलाटिका। शीथघ्नी क्षुद्रवर्षाभूर्बर्षकेतुः कटिल्लकः। पुन-र्नवाऽरुणा तिक्ता कटुपाका हिमा लघुः। वातलाग्राहिणी श्लेष्मपित्तरक्तविनाशिनी”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुनर्नवा/ पुनर्--नवा f. hog-weed , Boerhavia Procumbens Sus3r.