पुनर्भूः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुनर्भूः, स्त्री, (पुनर्भवति जायात्वेनेति । भू + क्विप् ।) द्विरूढा । तत्पर्य्यायः । दिधिषूः २ । इत्यमरः । २ । ६ । २३ ॥ “अक्षतयोनित्वाद्विधवा पुनरुह्यते । इत्यसावन्यस्य भूत्वा अन्यस्य पुन- र्भवतीति क्विपि पुनर्भूः । धिष्यते निन्दिततया शब्द्यते द्बिधिषूः धिष शब्दे नाम्नीति कूः निपा- तनाद्द्वित्वम् ।” इति तट्टीकायां भरतः ॥ सा त्रिविधा । यथा, -- “परपूर्ब्बास्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्व्विधा ॥ कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता । पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्म्मणा ॥ देशधर्म्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसान्यस्मै सा द्बितीया प्रकीर्त्तिता ॥ उत्पन्नसाहसा उत्पन्नव्यभिचारा । असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते । सवर्णाय सपिण्डाय सा तृतीया प्रकीर्त्तिता ॥” इति मिताक्षरा ॥ * ॥ पुनर्व्वारजाते, त्रि ॥
