सामग्री पर जाएँ

पुनर्व्वसु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुनर्व्वसुः, पुं, (पुनः पुनः शरीरेषु वसति क्षेत्रज्ञ- रूपेणेति । पुनर् + वस + उः ।) विष्णुः । (यथा, महाभारते । १३ । १४९ । ३९ । “अघनो विजयो जेता विश्वयोनिः पुनर्व्वसुः ॥”) शिवः । कात्यायनमुनिः । लोकभेदः । धना- रम्भः । इति शब्दरत्नावली ॥ नक्षत्रविशेषः । स च धनुराकृतिपञ्चतारात्मकः । यथा, -- “मध्यवर्त्मनि शरासनाकृता- वम्बरस्य सुरमातृभे गताः । लिप्तिकाः सुमुखि ! पञ्चतारके पक्षपावकमिता घटोदयात् ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ तस्याधिष्ठात्री देवता अदितिः । इति जातकः ॥ तत्र जातफलम् । यथा, कोष्ठीप्रदीपे । “प्रभूतमित्रः कृतशास्त्रयत्नः सद्रत्नकामी वरभूषणाढ्यः । दाता प्रतापी वसुधाधिपश्रीः पुनर्व्वसौ यस्य भवेत् प्रसूतिः ॥”

"https://sa.wiktionary.org/w/index.php?title=पुनर्व्वसु&oldid=149407" इत्यस्माद् प्रतिप्राप्तम्