पुन्नागः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पुन्नागः, पुं, (पुमान् नाग इव श्रेष्ठत्वात् ।) स्वनाम ख्यातबृहत्पुष्पवृक्षविशेषः । तत्पर्य्यायः । पुरुषः २ तुङ्गः ३ केशरः ४ देववल्लभः ५ । इत्यमरः । २ । ४ । २५ ॥ कुम्भीकः ६ रक्तकेशरः ७ । इति रत्नमाला ॥ पुन्नामा ८ पाटलद्रुमः ९ रक्तपुष्पः १० रक्तरेणुः ११ अरुणः १२ । अस्य पुष्पगुणाः । मधुरत्वम् । शीतत्वम् । सुगन्धि- त्वम् । पित्तनाशित्वम् । भूरितो द्रावणत्वम् । देवताप्रसादनत्वञ्च । इति राजनिर्घण्टः ॥ कषाय- त्वम् । कफरक्तनाशित्वञ्च । इति राजवल्लभः ॥ * ॥ सितोत्पलः । जातीफलः । नरश्रेष्ठः । पाण्डु- नागः । इति मेदिनी । गे, ४६ ॥
