सामग्री पर जाएँ

पुमान्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पुमान् [स्] पुं, (पाति रक्षतीति । पा + “पाते- र्डुम्सुन् ।” उणा० । ४ । १७७ । इति डुम्सुन् । डित्त्वात् टिलोपः ।) मनुष्यजातिपुरुषः । तत्- पर्य्यायः । पञ्चजनः २ पुरुषः ३ पूरुषः ४ ना ५ । इत्यमरः । २ । ६ । १ ॥ (यथा, -- “स्वदेशजातस्य जनस्य लोके गुणाधिके पुंसि भवत्यवज्ञा । निजाङ्गना यद्यपि रूपराशि- स्तथापि पुंसां परदारचेष्टा ॥” इत्युद्भटः ॥) मबुष्यजातिः । इति केचिदिति भरतः ॥ पुंलिङ्ग- मात्रञ्च ॥ (कूटस्थपुरुषः । यथा, विष्णुपुराणे । १ । १ । २ । “सदक्षरं ब्रह्म य ईश्वरः पुमान् गुणोर्म्मिसृष्टिस्थितिकालसंलयः । प्रधानबुद्ध्यादिजगत्प्रपञ्चसूः स नोऽस्तु विष्णुर्गतिभूतिमुक्तिदः ॥” “अक्षरमिति विकारं निराकरोति पुमान् कूटस्थः ।” इति तट्टीकायां श्रीधरस्वामी ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the २१स्त् Kalpa. M. २९०. 8.

"https://sa.wiktionary.org/w/index.php?title=पुमान्&oldid=432745" इत्यस्माद् प्रतिप्राप्तम्